________________
उपपन्न:--उत्पन्नो भवति । इदानीमिन्द्रविरहकालं प्रश्नयन्नाह-'इंदट्ठाणे ण'मित्यादि, इन्द्रस्थानं भदन्त ! कियन्तं कालमुपपातेन-इन्द्रोत्पादेन विरहितं प्रज्ञप्तम् ?, भगवानाह-गौतम! जघन्येनैकं समयं यावत् उत्कर्षेण षण्मासान् | यावत्ततः परमवश्यमन्यस्येन्द्रस्योत्पादसम्भवात् इति । सम्प्रति समयक्षेत्रबहिर्वतिज्योतिष्काणां स्वरूपं पृच्छति'बहिआणमित्यादि, बहिस्ताद् भगवन्! मानुषोत्तरस्य पर्वतस्य ये चन्द्रादयो देवास्ते किमूोपपन्ना इत्यादि प्रश्न| सूत्रं प्राग्वत् , निर्वचनसूत्रे तु नोोपपन्नाः, नापि कल्पोपपन्नाः, किन्तु विमानोपपन्नाः तथा नो चारोपपन्नाः नो
चारयुक्ताः, किन्तु चारस्थितिकाः, अत एव नो गतिरतयो नापि गतिसमापन्नकाः, पक्वेष्टकासंस्थानसंस्थितैोजनश18 तसाहनिस्तापक्षेत्रैस्तान् प्रदेशान् अवभासयन्तीत्यादिक्रियायोगः, पक्केष्टकासंस्थानं चात्र यथा पक्वेष्टका आयामतो
दीर्घा भवति विस्तरतस्तु स्तोका चतुरस्रा च, तेषामपि मनुष्यक्षेत्राद्वहिर्वर्तिनां चन्द्रसूर्याणामातपक्षेत्राणि आयाम| तोऽनेकयोजनलक्षप्रमाणानि विष्कम्भत एकलक्षयोजनप्रमाणानि, इयमत्र भावना-मानुषोत्तरपर्वतात् योजनलक्षा-18
र्धांतिक्रमे करणविभावनोक्तकरणानुसारेण प्रथमा चन्द्रसूर्यपतिस्ततो योजनलक्षातिक्रमे द्वितीया पंक्तिस्तेन प्रथमपंक्तिगतचन्द्रसूर्याणामेतावांस्तापक्षेत्रस्यायामः विस्तारश्च, एकसूर्यादपरः सूर्यो लक्षयोजनातिक्रमे तेन लक्षयोजनप्रमाणः,
इयं च भावना प्रथमपंत्यपेक्षया बोद्धव्या, एवमंग्रेऽपि भाव्यं, 'सयसाहस्सिएहिं'इत्यादि प्राग्वत्, कथंभूता इत्याह|| सुखलेश्याः, एतच्च विशेषणं चन्द्रान प्रति, तेन ते नातिशीततेजसः मनुष्यलोके इव शीतकालादौ न एकान्ततः शीतर-12
Jain Education inte
For Private & Personel Use Only
jainelibrary.org