________________
जनसहस्रप्रमाणैस्तापक्षेत्रैः, अत्रेत्थंभावे तृतीया, तेनेत्थंभूतैस्तैर्मेसें परिवर्तन्त इति क्रियायोगः, कोऽर्थः ?-उक्तस्वरू-18 | पाणि तापक्षेत्राणि कुर्वन्तो जम्बूद्वीपगतं मेरुं परितो भ्रमन्ति, तापक्षेत्रविशेषणं चन्द्रसूर्याणामेव, नतु नक्षत्रादीनां, | यथासम्भवं विशेषणानां नियोज्यत्वात् , अथैतान् साधारण्येन विशेषयन्नाह-साहस्रिकाभिः-अनेकसहस्रसङ्ख्याकाभिः वैकुर्विकाभिः-विकुर्वितनानारूपधारिणीभिर्बाह्याभिः-आभियोगिककर्मकारिणीभिः, नाव्यगानवादनादिकर्मप्रवणत्वात्, न तु तृतीयपर्षद्रूपाभिः, पर्षद्भिः-देवसमूहरूपाभिः कर्तृभूताभिः, बहुवचनं चात्र नाट्यादिगणापेक्षया, महता प्रकारेणाहतानि-भृशं ताडितानि नाट्ये गीते वादित्रे च-वादनरूपे त्रिविधेऽपि सङ्गीते इत्यर्थः, तन्त्रीतलतालरू|पत्रटितानि शेषं प्राग्वत् , तथा स्वभावतो गतिरतिकैः-बाह्यपर्षदन्तर्गतैर्देवैर्वेगेन गच्छत्सु विमानेषूत्कृष्टो यः सिंहनादो 18| मुच्यते यौ च बोलकल कलौ क्रियेते, तत्र बोलो नाम मुखे हस्तं दत्त्वा महता शब्देन पूत्करणं, कलकलश्च व्याकुल-18
शब्दसमूहस्तद्रवेण महता २ समुद्ररवभूतमिव कुर्वाणा मेरुमिति योगः, किंविशिष्टमित्याह-अच्छं-अतीवनिर्मलं जाम्बूनदमयत्वात् रत्नबहुलत्वाच्च पर्वतराज-पर्वतेन्द्रं 'प्रदक्षिणावर्त्तमण्डलचार'मिति प्रकर्षेण सर्वासु दिक्षु विदिक्षु च
परिभ्रमतां चन्द्रादीनां दक्षिण एव मेरुर्भवति यस्मिन्नावर्त्तने-मण्डलपरिभ्रमणरूपे स प्रदक्षिणः प्रदक्षिणः आवों |"
हा येषां मण्डलानां तानि तथा तेषु यथा चारो भवति तथा क्रियाविशेषणं तेन प्रदक्षिणावर्त्तमण्डलं चारं यथा स्यात्तथा| श्रीजम्बू. ७८
992909200909099999609009
Jan Education in
For Private
Personal Use Only