SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृति: ॥४५९॥ सर्वत्र-उक्तकालेषु समौ उच्चत्वेन, अत्रापि काकुपाठात् प्रश्नावगतिः, भगवानाह-तदेव यद्भवता मां प्रति पृष्टं | वक्षस्कारे यावदुच्चत्वेनेति, सर्वत्र-उद्गमनमुहूर्तादिषु समौ समव्यवधानावुच्चत्वेन समभूतलापेक्षयाऽष्टौ योजनशतानीतिकृत्वा, | दूरादिदर्शन हि सती जनप्रतीतिं वयमपलपाम इति भगवदुक्तमेवानुवदन्नत्र विप्रतिपत्तिबीजं प्रष्टुमाह-'जइ ण'मित्यादि, नं क्षेत्रगप्रश्नसूत्रं स्पष्टं, उत्तरसूत्रे गौतम ! लेश्यायाः-सूर्यमंडलगततेजसः प्रतिघातेन दूरतरत्वादुद्गमनदेशस्य तदप्रसरणेनेत्यर्थः या मू. | उद्गमनमुहूर्ते दूरे च मूले च दृश्यते, लेश्याप्रतिघाते हि सुखदृश्यत्वेन स्वभावेन दूरस्थोऽपि सूर्य आसन्नप्रतीति जन-1136-१३८ यति, एवमस्तमयनमुहूर्तेऽपि व्याख्येयं, द्वयोः समगमकत्वात् , मध्यान्तिकमुहूर्ते तु लेश्याया अभितापेन-प्रतापेन | सर्वतस्तेजःप्रतापेनेत्यर्थः, मूले च दूरे च दृश्येते, मध्याह्ने ह्यासन्नोऽपि सूर्यस्तीव्रतेजसा दुर्दर्शत्वेन दूरप्रतीतिं जनयति, एवमेवासन्नत्वेन दीप्तलेश्याकत्वं दिनवृद्धिधर्मादयो भावा दूरतरत्वेन मन्दलेश्याकत्वं दिनहानिशीतादयश्च वाच्याः, | उद्गमनास्तमयनादीनि च ज्योतिष्काणांगतिप्रवृत्ततया जायन्ते इति तेषां गमनप्रश्नायैकादशं द्वारमाह-'जम्बुद्दीवेण'मित्यादि, जम्बूद्वीपे भदन्त ! द्वीपे सूर्यों किमतीतं-गतिविषयीकृतं क्षेत्रं गच्छतः-अतिक्रामतः उत प्रत्युत्पन्नं-वर्तमान गतिविषयीक्रियमाणं उत अनागतं-गतिविषयीकरिष्यमाणं, एतेन इह च यदाकाशखण्डं सूर्यः स्वतेजसा व्यामोति तत्क्षेत्रमुच्यते तेनास्यातीतेत्यादिव्यवहारविषयत्वं नोपपद्यते अनादिनिधनत्वादिति शङ्का निरस्ता, भगवानाह-गौतम ! नोशब्दस्य निषेधार्थत्वान्नातीतं क्षेत्रं गच्छतः, अतीतक्रियाविषयीकृते वर्तमानक्रियाया एवासम्भवात् , प्रत्युत्पन्नं गच्छतः Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy