________________
श्रीजम्बू. ७७
Deser
प्रकाशः प्रतिहन्यते इति मतं तेषामर्थान्तरसूचनायेयं गाथा तत्पक्षे चैवं व्याख्येया, मेरोर्मध्यभागो - मन्दरार्धं यावच्च लवणरुन्दताषड्भागः एतेन मन्दरार्द्धसत्कपञ्च योजनसहस्राणि पूर्वराशौ प्रक्षिप्यन्ते जायते च त्र्यशीतिसहस्रयोजनानि त्रीणि योजनशतानि त्रयस्त्रिंशदधिकानि एकश्च योजनत्रिभागः ८३३३३ ३, अनेन च मन्दरगतकन्दरादीनामप्यन्तः प्रकाशः स्यादिति लभ्यते, यत्त्वस्मिन् व्याख्याने श्रीमलयगिरिपादैः सूर्यप्रज्ञप्तिवृत्तौ "युक्तं चैतत् सम्भावनया तापक्षेत्रायामपरिमाणमन्यथा जम्बूद्वीपमध्ये तापक्षेत्रस्य पंचचत्वारिंशद्योजन सहस्रपरिमाणाभ्युपगमे यथा सूर्यो बहिर्निष्क्रामति तथा तत्प्रतिबद्धं तापक्षेत्रमपि, ततो यदा सूर्यः सर्व बाह्यमण्डलमुपसंक्रम्य चारं चरति तदा सर्वथा मन्दरसमीपे प्रकाशो न प्राप्नोति, अथ च तदापि तत्र मन्दरपरिश्यपरिक्षेपेणाविशेषं परिमाणमग्रे वक्ष्यते, तस्मात्पादलिप्तसूरिव्याख्यानमभ्युपगन्तव्यमिती"त्युक्तं, तत्र तत्रभवत्पादानां गम्भीरमाशयं न विद्मः, बाह्यमण्डलस्थेऽपि सूर्ये इयत्प्रमाणस्य तापक्षेत्रायामस्यावस्थितत्वेन प्रतिपादनात् उक्ता सर्वाभ्यन्तरे मण्डले तापक्षेत्रसंस्थितिः, सम्प्रति प्रकाशपृष्ठलनत्वेन तद्विपर्ययभूतत्वेन च सर्वाभ्यन्तरमण्डलेऽन्धकारसंस्थितिं पृच्छति - ' तया णं भन्ते !' इत्यादि, तदा-सर्वाभ्यन्तर| मण्डलचरणकाले कर्कसंक्रान्तिदिने किंसंस्थाना अन्धकारसंस्थितिः प्रज्ञप्ता ?, यद्यपि प्रकाशतमसोः सहावस्थायित्व| विरोधात् समानकालीनत्वासंभवः तथापि अवशिष्टेषु चतुर्षु जम्बूद्वीपचक्रवालदशभागेषु सम्भावनया पृच्छत आशयान्नो कविरोधः, ननु आलोकाभावरूपस्य तमसः संस्थानासंभवेन कुतस्तत्पृच्छौचितीमंचति ?, उच्यते, नीलं शीतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org