SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः तापक्षेत्रं सू.१३५ ॥४५६॥ तच्च किल दशभायत्रयात्मक ततो भवत्येकस्मिन् दशभागे षण्मुहूर्ताक्रमणीयक्षेत्रप्रमाणतेति । सम्प्रति सामस्त्येनायामतस्तापक्षेत्रपरिमाणं पिपृच्छिषुराह-तया ण'मित्यादि, यदा भगवन् ! एतावांस्तापक्षेत्रपरमविष्कम्भ इति गम्यं तदा भगवस्तापक्षेत्रं सामस्त्येन दक्षिणोत्तरायततया कियदायामेन प्रज्ञप्तम् ?, भगवानाह-गौतम ! अष्टसप्ततिं योजनसहस्राणि त्रीणि च त्रयस्त्रिंशदधिकानि योजनशतानि योजनस्यैकस्य त्रिभागं च यावदायामेन प्रज्ञप्तं, पञ्चचत्वारिंशयोजनसहस्राणि द्वीपगतानि, त्रयस्त्रिंशद्योजनसहस्राणि त्रीणि च योजनशतानि त्रयस्त्रिंशदधिकानि उपरि च योजनत्रिभागयुक्तानि लवणगतानि, द्वयोः सङ्कलने यथोक्तं मानं, इदं च दक्षिणोत्तरत आयामपरिमाणमवस्थितं न क्वापि मण्डलचारे विपरिवर्त्ततेति, एनमेवार्थ सामस्त्येन द्रढयति-'मेरुस्स मज्झयारे' इत्यादि, इह मेरुणा सूर्यप्रकाशः प्रतिहन्यत इत्येकेषां मतं नेत्यपरेषां, तत्राद्यानां मते इयं सम्मतिरूपा गाथा, तस्मिन् पक्षे एवं व्याख्येया-करणं कारो मध्ये कारो मध्यकार:-मध्ये करणं मेरोस्तस्मिन् सति, कोऽर्थः?-चक्रवालक्षेत्रत्वात्तापक्षेत्रस्य मेरु मध्ये कृत्वा यावल्लवणस्य रुंदस्य-निदेशस्य भावप्रधानत्वादुन्दतायाः-विस्तारस्य षड्भागः-षष्ठो भागः एतावत्प्रमाणः तापस्य-तापक्षेत्रस्यायामः, तत्र मेरोरारभ्य जम्बूद्वीपपर्यन्तं यावत्पञ्चचत्वारिंशद्योजनसहस्राणि तथा लवणविस्तारो द्वे योजनलक्षे तयोः षष्ठो भागस्त्रयस्त्रिंशद्योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशद्योजनानि एको योजनविभाग इति रूपः तत उभयमीलने यथोक्तप्रमाणः, एष च नियमात् शकटोद्धिसंस्थितः, शकटोद्धिसंस्थानोऽन्तः सङ्कचितो बहिर्विस्तृत इति, अथ येषां मेरुणा न सूर्य ॥४५६॥ Jain Education Inter For Private & Personel Use Only jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy