SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ SSSSSSSSSSSSSSSB अस्य वर्गदशगुणवर्गमूलानयने जातानि ११३८ एतच्च द्वीपपरिधितः ३१६२२७ रूपात् शोध्यते ततः स्थितं ३१५०८९, अस्य दशभिर्भागे आगतं ३१५०८ अवशिष्टभागाः १९, अनयोरंशच्छेदयोः षडिर्गुणने जातं ६४, अथास्य शराशेस्त्रिगुणने सम्पद्यते यथोक्तराशिः, तथाहि-९४५२६६. इदं च सूक्ष्मेक्षिकया दर्शितं, न चैतत् स्वमत्युत्प्रेक्षितमिति भाव्यं, श्रीमुनिचन्द्रसूरिकृतसूर्यमंडलविचारेऽस्य सुविचारितत्वात्, प्रस्तुते च स्थूलनयाश्रयणेन दीपपर्यन्तमात्रविवक्षणेन सूत्रोक्तं प्रमाणं सम्पद्यते, द्वीपोदधिपरिधेरेव सर्वत्राप्यागमे दशांशकल्पनादिश्रवणात्, अनेन परिधितः परतो लवणोदषड्भागं यावत् प्राप्यमाणे तापक्षेत्रे तच्चक्रवालक्षेत्रानुसारेण तत्र विष्कम्भसम्भवात् परमविष्कम्भस्तत्र कथनीय इति निरस्तं, अयमेव चतुर्नवतिसहस्रपञ्चशतादियोजनादिको राशिर्बहुबहुश्रुतैः प्रमाणीकृतः करणसंवादित्वात् , तथाहि-स्वस्वमण्डलपरिधिः षष्टया भक्तो मुहूर्त्तगतिं प्रयच्छति, सा च दिवसार्द्धगतमुहूर्तराशिना गुणिता चक्षुःस्पर्श सा चोदयतः सूर्यस्याग्रतो यावानस्तमयतश्च पृष्ठतोऽपि तावानिति द्विगुणितः सन् तापक्षेत्रं भवति, एतच्च चक्षुःस्पर्शद्वारे सुव्यक्तं निरूपितमस्ति, इदं च तापक्षेत्रकरणं सर्वबाह्यमण्डलसत्कतापक्षेत्रबाह्यबाहानिरूपणे विभावयिष्यत इति नात्रोदाहियते, यदुक्तं चेत् दशभागान् प्रकाशयति इति, तत्र भागः षण्मुहूर्ताक्रमणीयक्षेत्रप्रमाणः, कथं ?, सर्वाभ्यन्तरे मण्डले चरति सूर्य दिवसोऽष्टादशमुहूर्तमानः नवमुहूर्ताक्रमणीये च क्षेत्रे स्थितः सूर्यो दृश्यो भवति तत एतावत्प्रमाणं सूर्यात् प्राक् तापक्षेत्रं तावच्च अपरतोऽपि, इत्थं चाष्टादशमुहूर्ताक्रमणीयक्षेत्रप्रमाणमेकस्य सूर्यस्य तापक्षेत्रं, Jain Education Internatio For Private & Personel Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy