SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥४५५॥ Jain Education Inter | माणमाह- 'तीसे ण' मित्यादि, तस्याः - तापक्षेत्रसंस्थितेः सर्वबाह्या लवणसमुद्रस्यान्ते समीपे चतुर्नवतिं योजनसह| स्राणि अष्टौ च षष्ट्यधिकानि योजनशतानि चतुरश्च दशभागान् योजनस्य परिक्षेपेण, अत्रोपपादकसूत्रमाह - ' से णं भंते ! परिक्खेवे' इत्यादि, स भदन्त ! परिक्षेपविशेषोऽनन्तरोक्तो य इति गम्यं कुत आख्यात इति गौतमो वदेद्, वदति भगवानाह — गौतम ! यो जम्बूद्वीपपरिक्षेपस्तं परिक्षेपं त्रिभिर्गुणयित्वा दशभिश्छित्त्वा दशभिर्विभज्य इदमेव पर्यायेणाह - दशभिर्भागे द्रियमाणे एप परिक्षेपविशेष आख्यातो मयाऽन्यैश्वाप्तैरिति वदेत् स्वशिष्येभ्यः, इदमुक्तं भवति - तापक्षेत्रस्य परमविष्कम्भः प्रतिपिपादयिषितव्यः, स च जम्बूद्वीपपर्यन्त इति तत्परिधिः स्थाप्यः योजन ३१६२२७ क्रोश ३ धनूंषि १२८ अं १३ अर्द्धाङ्गुलं १ एतावता च योजनमेकं किञ्चिदूनमिति व्यवहारतः पूर्ण विवक्ष्यते-सांशराशितो निरंशराशेर्गणितस्य सुकरत्वात्, ततो जातं ३१६२२८, एतत् त्रिगुणं क्रियते जातानि नव लक्षाणि अष्टच| त्वारिंशत्सहस्राणि षट् शतानि चतुरशीत्यधिकानि ९४८६८४, एषां दशभिर्भजने लब्धानि चतुर्नवतिर्यो जनसहस्राणि | अष्टौ शतानि अष्टषष्ट्यधिकानि चत्वारश्च दशभागा योजनस्य, अत्रापि त्रिगुणकरणादौ युक्तिः प्राग्वत्, नन्वन्यत्र 'रविण उदयत्थंतरच उणवइसहस्स पणसय छवीसा । वायाल सठ्ठिभागा कक्कड संकंतिदिअहंमि' ॥ १॥ इत्युक्तं, अत्रोदयास्तान्तरं | प्रकाशक्षेत्रं तापक्षेत्रमित्येकार्थाः तत्र भेदे किं निबन्धनमिति चेत्, उच्यते, सर्वाभ्यन्तरमण्डलवत्तीं सूर्यो मन्दरदिशि जम्बूद्वीपस्य पूर्वतोऽपरतश्चाशीत्यधिकं शतं योजनानामवगाह्य चारं चरति तेनाशीत्यधिकशतयोजनानि द्विगुणानि ३६० For Private & Personal Use Only ७वक्षस्कार तापक्षेत्रं सू. १३५ ॥४५५॥ jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy