________________
श्री जम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥४५७॥
Jain Education Int
बहलं तम इत्यादिपुद्गलधर्माणामभ्रान्तसार्वजनीनव्यवहारसिद्धत्वेनास्य पौद्गलिकत्वे सिद्धे संस्थानस्यापि सिद्धेः, | यथा चास्य पौद्गलिकत्वं तथाऽन्यत्र पूर्वाचार्यैः सुचर्चितत्वान्नात्र विस्तरभिया चर्च्यते इति, ऊर्ध्वमुखकलम्बुकापुष्प| संस्थानसंस्थिता अन्धकारसंस्थितिः प्रज्ञप्ता, अन्तः संकुचिता वहिर्विस्तृतेत्यादि तदेव-तापक्षेत्रसंस्थित्यधिकारोक्तमेव ग्राह्यं कियत्पर्यन्तमित्याह — यावत्तस्याः - अन्धकार संस्थितेः सर्वाभ्यन्तरिका बाहा मन्दरपर्वतान्ते षड् योजन सहस्राणि त्रीणि चतुर्विंशत्यधिकानि योजनशतानि षट् च दशभागान् योजनस्य परिक्षेपेण, अत्रोपपत्तिं सूत्रकृदेवाह - 'से ण' - मिति, प्रश्नसूत्रं प्राग्वत्, उत्तरसूत्रे यो मेरुपरिक्षेपः स त्रयोविंशतिषट्शताधिकैकत्रिंशद्योजन सहस्रमानस्तं परिक्षेपं द्वाभ्यां गुणयित्वा सर्वाभ्यन्तरमण्डलस्थे सूर्ये तापक्षेत्रसत्कानां त्रयाणां भागानामपान्तराले रजनिक्षेत्रस्य दशभागद्वय२ मानत्वात् दशभिर्विभज्य - दशभिर्भागे द्रियमाणे एष परिक्षेपविशेष आख्यात इति वदेदेतद्भगवन् ! गौतमः स्वशिष्येभ्यः, तथाहि - ३१६२३ एतद् द्वाभ्यां गुण्यते जातानि त्रिषष्टिसहस्राणि द्वे शते षट्चत्वारिंशदधिके ६३२४६ एषां दशभिर्भागे लब्धं यथोक्तं मानं । अथ बाहामाह-- 'ती से ण' मित्यादि, तस्याः - अन्धकार संस्थिते: सर्वबाह्यबाहा पूर्वतोsपरतश्च परमविष्कम्भो लवणसमुद्रान्ते त्रिषष्टिं योजनसहस्राणि द्वे च पंचचत्वारिंशदधिके योजनशते षट् च दश| भागान् योजनस्य परिक्षेपेणेति, अत्रोपपत्तिं सूत्रकृदेवाह - 'से ण' मित्यादि, व्यक्तं, नवरं जम्बूद्वीपपरिक्षेपः ३१६२२८ तं परिक्षेपं प्रागुक्तहेतुना द्वाभ्यां गुणयित्वा दशभिर्भागे हियमाणे एष परिक्षेपविशेष आख्यात इति वदेत्, अथास्या
For Private & Personal Use Only
७वक्षस्कारे तापक्षेत्रं सू. १३५
॥४५७॥
w.jainelibrary.org