________________
प्रज्ञप्ता मया शेषैश्च तीर्थकृभिः, इदमेव संस्थानं विशिनष्टि-अन्तः-मेरुदिशि सङ्कुचिता बहिः-लवणदिशि विस्तृता, तथा अन्तः-मेरुदिशि वृत्ता-अर्द्धवलयाकारा सर्वतो वृत्तमेरुगतान् चीन द्वौ वा दशभागान् अभिव्याप्यास्या व्यवस्थितत्वात् , बहिः-लवणदिशि पृथुला-मुत्कलभावेन विस्तारमुपगता, एतदेव संस्थानकथनेन स्पष्टयति-अन्तर्मेरुदिशि अङ्कःपद्मासनोपविष्टस्योत्सङ्गरूप आसनबन्धस्तस्य मुखं-अग्रभागोऽर्द्धवलयाकारस्तस्येव संस्थितं-संस्थानं यस्याः सा तथा, बहिः-लवणदिशि शकटस्योद्धिःप्रतीता तस्याः मुख-यतः प्रभृति निश्रेणिकाया फलकानि बध्यन्ते तच्चातिविस्तृतं भवति तत्संस्थाना, अन्तर्बहि गौ प्रतीत्य यथाक्रम सङ्कचिता विस्तृता इति भावः आदर्शान्तरे तु 'बाहिं सोथिअमुहसंठिआ' पाठस्तत्र स्वस्तिकः प्रतीतस्तस्य मुखं-अग्रभागस्तस्येवातिविस्तीर्णतया संस्थितं-संस्थानं यस्याः सा तथा, अथास्याः
आयाममाह-'उभओपासे ण' मित्यादि, उभयपार्श्वन-मन्दरस्योभयोः पार्श्वयोः तस्यास्तापक्षेत्रसंस्थितेः सूर्यभेदेन द्वि. &धाव्यवस्थितायाः प्रत्येकमेकैकभावेन द्वे बाहे-द्वे द्वे पार्श्वे अवस्थिते-अवृद्धिहानिस्वभावे सर्वमण्डलेष्वपि नियतपरि-16 माणे भवतः, अयमर्थः-एका भरतस्थसूर्यकृता दक्षिणपार्श्वे द्वितीया ऐरवतस्थसूर्यकृता उत्तरपार्श्वे इति द्विप्रकारा, सा च पञ्चचत्वारिंशतं २ योजनसहस्राणि आयामेन, मध्यवर्तिनो मेरोरारभ्य द्वयोर्दक्षिणोत्तरभागयोः पञ्चचत्वारिंशता योजनसहय॑वहिते जम्बूद्वीपपर्यन्ते व्यवस्थितत्वात् , एवं पूर्वापरभागयोरपि, यदा तत्र सूर्यो तदाऽयमायामो बोध्या, एतच्च सूत्रं जम्बूद्वीपगतायाममपेक्ष्य बोध्यं, लवणसमुद्रे तु त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि
Jain Education Intel
!
For Private & Personal Use Only
H
D
ainelibrary.org