________________
श्रीजम्बू-18 एकश्च त्रिभागो योजनस्येति, एतच्च एकत्र पिण्डितं अष्टासप्ततिः सहस्राणि योजनानां त्रीणि शतानि इत्यादिकं सूत्रकृ- वक्षस्कारे
|दग्रे वक्ष्यति तत्र सोपपत्तिकं निगदिष्यत् तेनात्र पुनरुक्कभिया नोक्तं। सम्प्रत्यनवस्थितबाहास्वरूपमाह-'दुवे अण' मि- तापक्षेत्रं न्तिचन्द्रीत्यादि, तस्याः-एकैकस्यास्तापक्षेत्रसंस्थितेः द्वे च बाहे अनवस्थिते-अनियतपरिमाणे भवतः, प्रतिमण्डलं यथायोगं हीय
सू. १३५ या वृत्तिः
मानवर्द्धमानपरिमाणत्वात् , तद्यथा-सर्वाभ्यन्तरा सर्वबाह्या चैवशब्दौ प्रत्येकमनवस्थितस्वभावद्योतनाथौँ, तत्र या ॥४५४|| | मेरुपार्श्वे विष्कम्भमधिकृत्य वाहा सा सर्वाभ्यन्तरा या तु लवणदिशि जम्बूद्वीपपर्यन्तमधिकृत्य बाहा सा सर्वबाह्या,
आयामश्च दक्षिणोत्तरायततया प्रतिपत्तव्यो विष्कम्भः पूर्वापरायततयेति, साम्प्रतं सर्वाभ्यन्तरापरिमाणं निर्दिशति| 'तीसे ण'मित्यादि, तस्या-एकैकस्याः तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरा वाहा मेरुगिरिसमीपे नव योजनसहस्राणि चत्वारि षडशीत्यधिकानि योजनशतानि नव च दशभागान् योजनस्य परिक्षेपेण, अत्रोपपत्त्यर्थं प्रश्नमाह-एस ण'मित्यादि, एषः-अनन्तरोक्तप्रमाणः परिक्षेपविशेषो-मन्दरपरिरयपरिक्षेपविशेषः कुतः-कस्मात् एवंप्रमाण आख्यातो नोनोs-12 |धिको वा इति वदेत् ?, भगवानाह-गौतम ! यो मन्दरस्य परिक्षेपस्तं त्रिभिर्गुणयित्वा दशभिश्छित्त्वा-दशभिर्विभज्य एतदेव पर्यायेण व्याचष्टे-दशभिर्भागे हियमाणे सति एष परिक्षेपविशेष आख्यात इति वदेत् स्वशिष्येभ्यः, अयमर्थः- २४५४॥ मेरुणा प्रतिहल्यमानः सूर्यातपो मेरुपरिधि परिक्षिप्य स्थित इति मेरुसमीपेऽभ्यन्तरतापक्षेत्रविष्कम्भचिन्ता, अथैवं । सति सत्रयोविंशतिषट्शताधिकैकत्रिंशत्सहस्रयोजनमानः सर्वोऽपि मेरुपरिधिरस्य तापक्षेत्रस्य विष्कम्भतामापद्येत इति
Jain Education intelll
For Private & Personel Use Only
IX Ejainelibrary.org