________________
Jain Education Int
| न्मण्डलात्तदनन्तरं मण्डलं सङ्क्रामन् द्वौ द्वौ मुहत्कषष्टिभागावेकैकस्मिन् मण्डले दिवसक्षेत्रस्य निवर्द्धयन् २ - हापयन् २ रजनिक्षेत्रस्य तावेवाभिवर्द्धयन् २, कोऽर्थः १ - मुहूर्त्तकषष्टिभागद्वयगम्यं क्षेत्रं दिवसक्षेत्रे हापयन् तावदेव रजनिक्षेत्रे अभिवर्द्धयन्निति सर्वबाह्यमण्डलमुपसङ्गम्य चारं चरति, प्रतिमण्डलं भागद्वयहानिवृद्धी उक्ते, असर्वमण्डलेषु भागानां | हानिवृद्धि सर्वाग्रं वक्तुमाह - 'जया ण' मित्यादि, यदा सूर्यः सर्वाभ्यन्तरान्मण्डलादित्यत्र यलोपे पञ्चमी वक्तव्या, तेन सर्वाभ्यन्तरं मण्डलमारभ्य सर्वबाह्यमण्डलमुपसङ्क्रम्य चारं चरति तदा सर्वाभ्यन्तरं मण्डलं प्रणिधाय - मर्यादी कृत्य | ततः परस्माद् द्वितीयान्मण्डलादारभ्येत्यर्थः एकेन त्र्यशीतेन त्र्यशीत्यधिकेन रात्रिन्दिवानां - अहोरात्राणां शतेन त्रीणि | षट्षष्टानि - पट्षष्ट्यधिकानि मुहूत्र्त्तेक पष्टिभागशतानि दिवसक्षेत्रस्याभिवर्द्धा कोऽर्थः ? - षट्षष्ट्यधिकत्रिशतमुहूत्र्त्तकषष्टिभागेर्यावन्मात्रं क्षेत्रं गम्यते तावन्मात्रं क्षेत्रं हापयित्वा इत्यर्थः, तावदेव क्षेत्रं रजनिक्षेत्रस्याभिवर्द्धा चारं चरति, अयमर्थ:दक्षिणायनसत्कत्र्यशीत्यधिकमण्डलेषु प्रत्येकं हीयमानभागद्वयस्य त्र्यशीत्यधिकशतगुणनेन षट्षष्ट्यधिकत्रिशत राशिरुपपद्यत इति तावदेव रजनिक्षेत्रे वर्द्धते इत्यर्थः, एतदेव पश्चानुपूर्व्या पृच्छति - 'जया ण' मित्यादि, प्रश्नसूत्रं प्राग्वत्, उत्त| रसूत्रे गौतम ! तदा उत्तमकाष्ठा प्राप्ता - प्रकृष्टावस्थां प्राप्ता अत एवोत्कर्षिका उत्कृष्टा, यतो नान्या प्रकर्षवती रात्रिरि| त्यर्थः, अष्टादशमुहूर्त्तप्रमाणा रात्रिर्भवति तदा त्रिंशन्मुहूर्त्तसङ्ख्यापूरणाय जघन्यको द्वादशमुहूर्त्तप्रमाणो दिवसो भवति, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्य, एप चाहोरात्रो दक्षिणायनस्य चरम इत्यादि प्रज्ञापनार्थमाह- 'एस ण' मित्यादि, एतच्च प्रा
For Private & Personal Use Only
v.jainelibrary.org