________________
Jain Education
त्यधिकशततमत्वात्, ततो जातानि पञ्चषष्टिः शतानि द्विपञ्चाशदधिकानि ६५५२, तेषामेकषष्ट्या भागे हृते लब्धं सप्तोत्तरं शतं षष्टिभागानां शेषाः पञ्चविंशतिः ६, एतत्पञ्चाशीतिर्योजनानि नव षष्टिभागा योजनस्य एकस्य षष्टि| भागस्य सत्काः षष्टिरेकषष्टिभागाः ८५ ६० ६ इत्येवंरूपाद् ध्रुवराशेः शोध्यते, जातानि पश्चात् त्र्यशीतिर्योजना द्वाविंशतिः षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः पञ्चत्रिंशदेकपष्टिभागाः, इह षटूत्रिंशदेकषष्टिभागाः कलया न्यूनाः परमार्थतो लभ्यन्ते, एतच्च प्रागेवोपदर्शितं तच्च कलाया न्यूनत्वं प्रतिमण्डलं भवत् यदा द्वयशीत्यधिकशततममण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा अष्टषष्टिरेकषष्टिभागा लभ्यन्ते ततस्ते भूयः प्रक्षिष्यन्ते ततो जातमिदंत्र्यशीतिर्योजनानि त्रयोविंशतिः षष्टिभागाः योजनस्य एकस्य षष्टिभागस्य सत्का द्विचत्वारिंशदेकषष्टिभागाः ८३, एतेन सर्वाभ्यन्तरानन्तरद्वितीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सप्तचत्वारिंशत्सहस्राणि शतमेकनाशीत्यधिकं योजनानां सप्तपञ्चाशत् षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का एकोनविंशतिरेकषष्टिभागाः ४७१७९६७३३ | इत्येवंरूपसहितं क्रियते ततो यथोक्तं सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, तच्च सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिषष्ट्यधिके योजनानामेकविंशतिश्च षष्टिभागा योजनस्य ४७२६३ ३ एवं दृष्टिपथप्राप्तायां कतिपयेषु मण्डलेषु सातिरेकाणि पञ्चाशीतिं २ योजनानि अग्रेतनेषु चतुरशीतिं २ पर्यन्ते यथोक्ताधिकसहितानि व्यशीतिं योजनानि | अभिवर्द्धयन् २ तावद् वक्तव्यो यावत् सर्वाभ्यन्तरमण्डलमुपसङ्गम्य चारं चरति, इदं च सर्वाभ्यन्तरमण्डलं सर्वबाह्या
For Private & Personal Use Only
www.jainelibrary.org