________________
Receneraeseseeeee
राशिः षष्टिच्छेद इति योजनराशिं षष्टया गुणयित्वा सवर्ण्यते जातं ३१५१०७, अयमेव राशिः करणविभावनायां मलयगिरीयक्षेत्रसमासवृत्तौ च परिधिराशिरिति कृत्वा दर्शितो लाघवात् भाज्यराशिलब्धस्य भाजकराशिना गुणने मूलराशेरेव लाभात्, एष राशिः पञ्चभिः शतैरष्टाचत्वारिंशदधिकैर्गुण्यते जाताः सप्तदश कोव्यः षविंशतिर्लक्षाः अष्टसप्ततिः सहस्राणि षट् शतानि पत्रिंशदधिकानि १७२६७८६३६, अयं च राशिर्भागभागात्मकत्वान्न योजनानि प्रयच्छतीति एकषष्टेः षष्टया गुणिताया यावान् राशिर्भवति तेन भागो हियते, इयं च गणितप्रक्रिया लाघवार्थिका, अन्यथाऽस्य राशेरेकषष्टया भागे हृते पष्टिभागा लभ्यन्ते तेषां च षष्टया भागे हृते योजनानि भवन्तीति गौरवं स्यात्, एकषष्टयां च षष्ट्या गुणितायां षट्त्रिंशच्छतानि षष्ट्यधिकानि ३६६०, तैर्भागे हृते आगतं सप्तचत्वारिंशत्सहस्राणि शतमेकमेकोनाशीत्यधिक योजनानां ४७१७९, शेष ३४९६, छेदराशेः षष्ट्याऽपवर्तना क्रियते जाता एकषष्टिः ६१ तया शेषराशेर्भागो हियते लब्धाः सप्तपञ्चाशत् षष्टिभागाः५४, एकोनविंशतिश्चैकस्य षष्टिभागस्य सत्काः एकषष्टिभागाः । अथाभ्यन्तरतृतीयमण्डलस्य चार पिपृच्छिषुरायसूत्र सूत्रयति-से णिक्खममाणे सूरिए दोचंसि' इत्यादि, अथ निष्क्रामन् | सूर्यो द्वितीयेऽहोरात्रे प्रस्तुतायनापेक्षया द्वितीयमण्डल इत्यर्थः अभ्यन्तरं तृतीयमण्डलमुपसङ्कम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, भगवानाह-गौतम ! पञ्च पञ्च योजनसहस्राणि द्वे च द्विपश्चाशद्योजनशते पञ्चदश षष्टिभागान योजनस्यैकैकेन मुहूर्तेन गच्छति,इदं च प्रस्तुतमण्डलपरिरयस्य षष्ट्या भजने संवादमादत्ते, तदा च इह-12
eeeeeeeeeeeeeeee
Jain Education Intern
For Private & Personel Use Only
www.jainelibrary.org