________________
| नवभिर्मुहूर्त्तेर्गुण्यते ततो भवति यथोक्तं दृष्टिपथप्राप्तताविषयपरिमाणमिति, एवं सर्वेष्वपि मण्डलेषु स्वखमुहूर्त्तगतौ स्वस्वदिवसार्द्धगतमुहूर्त्त राशिना गुणितायां दृष्टिपथप्राप्तता भवति, दृष्टिपथप्राप्तता चक्षुःस्पर्शः पुरुषच्छाया इत्येकार्थाः, सा च पूर्वतोsपरतश्च समप्रमाणैव भवतीति द्विगुणिता तापक्षेत्रमुदयास्तान्तरमित्यादिपर्यायाः, इदं च सर्वबाह्यानन्तरमण्डलात् पश्चानुपूर्व्या गण्यमानं त्र्यशीत्यधिकशततमं प्रतिमण्डलं चाहोरात्रगणनादहोरात्रोऽपि त्र्यशीत्यधिकशततमस्तेनायमुत्तरायणस्य चरमो दिवसोऽयमेव च सूर्यसंवत्सरस्य पर्यन्तदिवस उत्तरायण पर्यवसानकत्वात् संवत्सरस्येति । अथ नवसंवत्सर प्रारम्भप्रकारप्रज्ञापनाय सूत्रं प्रारभ्यते - ' से णिक्खममाणे' इत्यादि, अथाभ्यन्तरान्मण्डलान्निष्क्रामन् जम्बूद्वीपान्तः प्रवेशेऽशीत्यधिक योजनशतप्रमाणे क्षेत्रे चरमाकाशप्रदेशस्पर्शनानन्तरं द्वितीयसमये द्वितीय मण्डलाभिमुखं प्रसर्पन्नित्यर्थः, सूर्यो नवं- आगामिकालभाविनं संवत्सरमयमानः २ - आददानः प्रथमेऽहोरात्रे सर्वाभ्यन्तरानन्तरं मण्डलमुपसङ्क्रम्य चारं चरति, एष चाहोरात्रो दक्षिणायनस्याद्यः संवत्सरस्यापि च दक्षिणायनादिकत्वात् संवत्सरस्य, अत्र चाधिकारे समवायाङ्ग सूर्यप्रज्ञप्तिचन्द्रप्रज्ञप्तिसूत्रादर्शे प्रस्तुतसूत्रादर्शेषु च अयमाणे २ इत्यस्य स्थाने अयमीणे | इति पाठो दृश्यते तेन यदि स समूलस्तदा आर्षत्वादिहेतुना साधुरेव, अयमाणे इति तु लक्षणसिद्धः, अर्थस्तूभयत्रापि | स एवेति, अथात्र गतिप्रश्नाय सूत्रम् - 'जया ण' मित्यादि, यदा भगवन् ! सर्वाभ्यन्तरानन्तरं द्वितीयं दक्षिणायनापेक्षया आद्यं मण्डलमुपसङ्क्रम्य चारं चरति तदा एकैकेन मुहूर्त्तेन कियत्क्षेत्रं गच्छति ?, गौतम ! पञ्च पञ्च योजनसहस्राणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org