________________
श्रीजम्बूद्वीपेशान्विचन्द्री - या वृचिः
॥४४१॥
Jain Education Inter
चषष्टिभागान योजनस्यैकैकेन मुहूर्त्तेन गच्छति, कथमिदमुपपद्यते चेत्, उच्यते, इह सर्वमपि मण्डलमेकेनाहोरात्रेण द्वाभ्या सूर्याभ्या परिसमाप्यते, प्रतिसूर्य चाहोरात्रगणने परमार्थतो द्वावहोरात्रौ भवतः, द्वयोश्चाहोरात्रयोः षष्टिर्मुहूर्त्तास्ततो मण्डलपरिरयस्य षष्ट्या भागे हते यल्लभ्यते तन्मुहूर्त्तगतिप्रमाणं, तथाहि - सर्वाभ्यन्तरमण्डल परिरयस्त्रीणि लक्षाणि पञ्चदश सहस्राण्ये कोननवत्यधिकानि योजनानां ३१५०८९, एतेषां षष्टचा भागे हृते लब्धं यथोक्तं मुहूर्त्तगतिप्रमाणं ५२५१, अथ विनयावर्जितमनस्केन प्रज्ञापकेनापृच्छतोऽपि विनेयस्य किञ्चिदधिकं प्रज्ञापनीयमित्याह यत्तदोर्नित्याभिसम्बन्धादनुत्तमपि यच्छब्दगर्भितवाक्यमत्रावतारणीयं तेन यदा सूर्यः एकेन मुहूर्त्तेन इयत् ५२५१ ३ प्रमाणं गच्छति तदा सर्वाभ्यन्तरमण्डलसङ्क्रमणकाले इहगतस्य मनुष्यस्य अत्र जातावेकवचनं ततोऽयमर्थः - इहगतानां भरतक्षेत्रगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहस्रैर्द्वाभ्यां च त्रिषष्टाभ्यां - त्रिषष्ट्यधिकाभ्यां योजनशताभ्यामेकविंशत्या च योजनस्य षष्टिभागैरुदयमानः सूर्यश्चक्षुःस्पर्श - चक्षुर्विषयं हवं - शीघ्रमागच्छति, अत्र च स्पर्शशब्दो नेन्द्रियार्थसन्निकर्षपरश्चक्षुषोऽप्राप्यकारित्वेन तदसंभावादिति, काऽत्रोपपत्तिरिति चेत्, उच्यते, इह दिवसस्यार्द्धेन याव| न्मात्रं क्षेत्रं व्याप्यते सावति व्यवस्थितः सूर्य उपलभ्यते, स एव लोके उदयमान इति व्यवह्रियते, सर्वाभ्यन्तरमण्डले | दिवसप्रमाणमष्टादश मुहूर्त्तास्तेषामर्द्ध नव मुहूर्त्ताः एकैकस्मिंश्च मुहूर्त्ते सर्वाभ्यन्तरे मण्डले चारं चरन् पञ्च योजनसह - स्राणि द्वे च योजनशते एकपञ्चाशदधिके एकोनत्रिंशतं च षष्टिभागान् योजनस्य गच्छति, एतावन्मुहूर्त्तगतिपरिमाणं
For Private & Personal Use Only
७वक्षस्कारे मुहूर्त्तगतिः सू. १३३
॥४४१॥
jainelibrary.org