SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Seeeeeer श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ५वक्षस्कारे दिकुमायुत्सवः भू. ११२ ॥३८६॥ तस्य, चःसमुच्चये, चक्षुश्च द्रव्यभावभेदाभ्या द्विधा, तत्राद्यं भावचक्षुरसहकृतं नार्थ(सर्व)प्रकाशकं तेन भावचक्षुषा भगवानुपमीयते, तच्चामूर्तमिति ततो विशेषमाह-मूर्तस्य-मूर्तिमतः चक्षुर्याह्यस्येत्यर्थः, सर्वजगजीवाना वत्सलस्य-उपकारकस्य, उक्कार्थे विशेषणद्वारा हेतुमाह-हितकारको मार्गो-मुक्तिमार्गः सम्यग्ज्ञानदर्शनचारित्ररूपस्तस्य देशिका| उपदेशिका उपदेशदर्शिकेत्यर्थः, तथा विभ्वी-सर्वभाषानुगमनेन परिणमनात् सर्वव्यापिनी सकलश्रोतृजनहृदयसकान्ततात्पर्यार्थी एवंविधा वाग्ऋद्धिः-बाकूसम्पत्तस्याः प्रभुः-स्वामी सातिशयवचनलब्धिक इत्यर्थः, तस्य तथा. अत्र विशेषणस्य परनिपातः प्राकृतत्वात् , जिनस्य-रागद्वेषजेतुः ज्ञानिनः-सातिशयज्ञानयुक्तस्य नायकस्य-धर्मवरचक्रवतिनः बुद्धस्य-विदिततत्त्वस्य बोधकस्य-परेषामावेदिततत्त्वस्य सकललोकनाथस्य-सर्वप्राणिवर्गस्य बोधिवीजाधानसंरक्षणाभ्यां योगक्षेमकारित्वात् निर्ममस्य-ममत्वरहितस्य प्रवरकुलसमुद्भवस्य जात्या क्षत्रियस्य एवं विधविख्यातगुणस्य लोकोत्तमस्य यत्त्वमसि जननी तत्त्वं धन्याऽसि पुण्यवत्यसि कृतार्थाऽसि, वयं हे देवानुप्रिये! अधोलोकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः भगवतो जन्ममहिमां करिष्यामस्तेन युष्माभिन भेतव्यं, असम्भाव्यमानपरजनापातेऽस्मिन् रहःस्थाने इमा विसदृशजातीयाः किमितिशङ्काकुलं चेतो न कार्यमित्यर्थः, अर्थतासामितिकर्तव्यतामाह--'इतिकट्ट उत्तरपुरस्थिमं दिसीभाग'मित्यादि, इतिकृत्वा-प्रस्तावादित्युक्त्वा ता एवोत्तरपौरस्त्यं दिग्भागमपक्रामन्ति, अपक्रम्य च वैक्रियसमुद्घातेन समवघ्नन्ति समवहत्य च सङ्ख्यातानि योजनानि दण्डं निसृजन्ति, निसृज्य ॥३८६॥ JainEducation intil For Private Personal use only Alainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy