SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ सर्वद्युत्या घनमृदङ्ग-मेघवद् गम्भीरध्वनिकं मृदङ्गं पणवो-मृत्पटहः, उपलक्षणमेतत् तेनान्येषामपि तूर्याणा संग्रहः, एतेषां प्रवादितानां यो रवस्तेन, तया उत्कृष्टया यावत्करणात् 'तुरिआए चवलाए' इत्यादिपदसंग्रहः प्राग्वत् देवगत्या 18 यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव च तीर्थकरस्य जन्मभवनं तत्रैवोपागच्छन्ति उपागत्य च भगवतस्तीर्थकरस्य ९ जन्मभवनं तैर्दिव्यैर्यानविमानस्त्रिकृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति, त्रीन् वारान् प्रदक्षिणयन्तीत्यर्थः, त्रिः प्रदक्षि18णीकृत्य च उत्तरपौरस्त्ये दिग्भागे-ईशानकोणे ईषञ्चतुरङ्गुलमसम्प्राप्तानि धरणितले तानि दिव्यानि यानविमानानि । 8) स्थापयन्तीति, अथ यच्चक्रुस्तदाह--'ठबित्ता' इत्यादि, स्थापयित्वा च प्रत्येक २ अष्टावपीत्यर्थः चतुर्भिः सामानिकसहस्र-1 वित् सार्द्ध सम्परिवृता दिव्येभ्यो यानविमानेभ्यः प्रत्यवरोहन्ति प्रत्यवरुह्य च सर्वा यावच्छब्दात् सर्वद्युत्यादिपरिग्रहः कियत्पर्यन्तमित्याह--'संखपणवभेरिझल्लरिखरमुहिडुक्कमुरजमुइंगदंदहिनिग्घोसनाइएण'ति, यत्रैव भगवास्तीर्थकरमाता च तत्रैवोपागच्छन्ति, उपागत्य च भगवन्तं तीर्थकर तीर्थकरमातरं च त्रिः प्रदक्षिणयन्ति त्रिः प्रदक्षि-18 णीकृत्य च प्रत्येकं करतलपरिगृहीतं शिरस्यावर्त मस्तके अञ्जलिं कृत्वा एवं-वक्ष्यमाणमवादिषुः, यदवादिषुस्तदाह'नमोऽत्थु ते'इत्यादि, नमोऽस्तु ते-तुभ्यं रत्नं-भगवल्लक्षणं कुक्षौधरतीति रत्नकुक्षिधारिके अथवा रत्नगर्भावद् गर्भधारकत्वेनापरस्त्रीकुक्षिभ्योऽतिशायित्वेन रत्नरूपां कुक्षिं धरतीति. शेषं तथैव. तथा जगतो-जगद्वतिजनानां सर्वभावानां प्रकाशकत्वेन प्रदीप इव प्रदीपो भगवान् तस्य दीपिके, सर्वजगन्मङ्गलभूतस्य चक्षुरिव चक्षुः सकलजगद्भावदर्शकत्वेन eeseceaeeeeeeeeeeeeseaestra Jain Education Inte For Private & Personal Use Only (O jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy