________________
द्योजनसहस्राणि अष्ट च योजनशतानि द्वाविंशत्यधिकानि अष्टचत्वारिंशतं चैकषष्टिभागान् योजनस्याबाधया सर्वाभ्यन्तरानन्तरं सूर्यमण्डलं प्रज्ञप्तं, पूर्वस्माद्यदत्राधिकं तद्विम्बविष्कम्भादन्तरमानाच्च समाधेयं, अथ तृतीयमण्डलं पृच्छमाह-'जंबुद्दीवेण'मित्यादि व्यक्तं, नवरं 'अभंतरं तच्च'मिति अभ्यन्तरतृतीयं, अनेन बाह्यतृतीयमण्डलस्य व्यवच्छेदः, उत्तरसूत्रे चतुश्चत्वारिंशद्योजनसहस्राणि अष्ट शतानि पञ्चविंशत्यधिकानि पञ्चत्रिंशतं चैकषष्टिभागान योजनस्याबाधया अभ्यन्तरतृतीयं सूर्यमण्डलं प्रज्ञप्तम् , उपपत्तिस्तु द्वितीयमण्डलावाधापरिमाणे ४४८२२ योजन १६ इत्येवंरूपे प्रस्तुतमण्डलसत्के सान्तरबिम्बविष्कम्भे प्रक्षिप्ते जातं यथोक्तं मानम् , एवं प्रतिमण्डलमबाधावृद्धावानीयमानायां मा भूद् ग्रन्थगौरवं तेन तजिज्ञासूनां बोधकमतिदेशमाह-एवं खलु' इत्यादि, एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः एतेनोपायेन-प्रत्यहोरानमेकैकमण्डलमोचनरूपेण निष्क्रामन्-लवणाभिमुखं मण्डलानि कुर्वन् सूर्यस्तदनन्तरात्-विवक्षितात् पूर्वस्मात् मण्डलात् तदनन्तरं-विवक्षितमुत्तरमण्डलं सङ्क्रामन् २ द्वे द्वे योजने अष्टचत्वारिंशतं चैकपष्टिभागान् योजनस्य एकैकस्मिन् मण्डले अबाधाया वृद्धिमभिवर्द्धयन् २ सर्वबाह्यमण्डलमुपक्रम्य चार चरति, पञ्चात्रातिदेशरुचिरपि सूत्रकृन्मण्डलत्रयाभिव्यक्तिमदर्शयत् तत्प्रथमं ध्रुवाङ्कदर्शनार्थ द्वितीयं मण्डलाभिवृद्धिदर्शनार्थ तृतीयं पुनस्तदभ्यासार्थमिति । अथ पश्चानुपूर्व्यपि व्याख्यानाङ्गमित्यन्त्यमण्डलादारभ्य मेरुमण्डलयोरबाधां पृच्छन्नाह-'जंबुहीवे'त्ति जम्बूद्वीपे भदन्त ! द्वीपे मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यं सूर्यमण्डलं प्रज्ञतम् १, गौतम ! पञ्चचत्वारिं
lain Education in
For Private
Personel Use Only
jainelibrary.org