________________
र
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
७वक्षस्कारे मेरुमण्डलाबाधा सू.१३१
॥४३६॥
रस्स पव्वयस्स केवइयाए अबाहाए बाहिरतच्चे सूरमंडले पण्णत्ते !, गो० ! पणयालीसं जोमणसहस्साई तिण्णि अ चउवीसे जोअणसए छब्बीसं च एगसट्ठिभाए जोअणस्स अबाहाए बाहिरतच्चे सूरमंडले पण्णत्ते, एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणतराओ मंडलाओ तयाणंतर मंडलं संकममाणे संकममाणे दो दो जोअणाई अडयालीसं च एगसट्ठिभाए जोयणस्स एगमेगे मंडले अबाहावुद्धिं णिवुद्धमाणे २ सव्वन्भतरं मंडलं उवसंकमित्ता चारं चरइ ५ (सूत्रं १३१)
'जंबुद्दीवे ण' मित्यादि, जम्बूद्वीपे द्वीपे भगवन् ! मन्दरस्य पर्वतस्य कियत्या अवाधया सर्वाभ्यन्तरं सूर्यमण्डलं प्रज्ञप्तम् ?, गौतम ! चतुश्चत्वारिंशद्योजनसहस्राणि अष्ट च विंशत्यधिकानि योजनशतानि अबाधया सर्वाभ्यन्तरं | सूर्यमण्डलं प्रज्ञप्तम्, अत्रोपपत्तिः-मन्दरात् जम्बूद्वीपविष्कम्भः पञ्चचत्वारिंशद्योजनसहस्राणि, इदं हि मण्डलं जगतीतो द्वीपदिशि अशीत्यधिकयोजनशतोपसङ्क्रमे भवति, तेन ४५००० योजनरूपाद् द्वीपविष्कम्भादियति १८० योजनरूपे शोधिते जातं यथोक्तं मानं, एतच्च चक्रवालविष्कम्भेन भवति तेनापरसूर्यसर्वाभ्यन्तरमण्डलस्याप्यनेनैव करणेनैतावत्येवाबाधा बोद्धव्या, एतेन यदन्यत्र क्षेत्रसमासटीकादौ मेरुमवधीकृत्य सामान्यतो मण्डलक्षेत्राबाधापरिमाणद्वारं पृथक् प्ररूपितं तदनेनैव गतार्थ, अस्यैवाभ्यन्तरतो मण्डलक्षेत्रस्य सीमाकारित्वात् , अथ प्रतिमण्डलं सूर्यस्य दूरदूरगमनादबाधापरिमाणमनियतमित्याह-'जंबुद्दीवे ण'मित्यादि, जम्बूद्वीपे भदन्त ! द्वीपे मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरादनन्तरं-निरन्तरतया जायमानत्वात् द्वितीयं सूर्यमण्डलं प्रज्ञप्तम् ?, गौतम ! चतुश्चत्वारिंश
॥४३६॥
Jan Education inte
For Private
Personal use only
www.jainelibrary.org