________________
श्रीजम्बू
द्वीपशा
न्तिचन्द्रीया वृचिः
७वक्षस्कारे मेरुमण्डलाबाधा मू. १३१
॥४३७॥
शद्योजनसहस्राणि त्रीणि च योजनशतानि त्रिंशदधिकानि अबाधया सर्वबाह्यं सूर्यमण्डलं प्रज्ञप्तं, तत्र मन्दरात् पञ्चचत्वारिंशद्योजनसहस्राणि जगती ततो लवणे त्रीणि शतानि त्रिंशदधिकानि, तथा द्वितीयमण्डलपृच्छा-'जंबुद्दीवेत्ति प्रश्नसूत्रे बाह्यानन्तरं-पश्चानुपूर्व्या द्वितीयमित्यर्थः, उत्तरसूत्रे पञ्चचत्वारिंशद्योजनसहस्राणि तथैव जगती ततस्त्रिंशदधिकत्रिशतयोजनातिक्रमे यत्सूरमण्डलमुक्तं तस्मादन्तरमाने बिम्त्रविष्कम्भमाने च शोधिते जातं यथोक्तं मानमिति, अथ तृतीयं-'जंबुद्दीवे'त्ति व्यक्तं, नवरं उत्तरसूत्रे पञ्चचत्वारिंशद्योजनसहस्राणि त्रीणि च शतानि चतुर्विशत्यधिकानि षड्विंशतिं च एकषष्टिभागान् योजनस्येति, अत्र पूर्वमण्डलाङ्कात् सान्तरमण्डलविष्कम्भयोजने २६ शोधिते जातं यथोक्तं मान, पूर्वमण्डलाङ्को ध्रुवाकस्तत्र सबिम्बविष्कम्भोऽन्तरविष्कम्भः शोध्यस्तत उपपद्यते यथोक्तं मानं, उक्तावशिष्टेषु मण्डलेष्वतिदेशमाह-एवं खलु' इत्यादि, एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः, एतेनोपायेन प्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण प्रविशन् जम्बूद्वीपमिति गम्यं, सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डल सङ्क्रामन् २ढे द्वे । योजने अष्टचत्वारिंशतं चैकषष्टिभागान् योजनस्य एकैकस्मिन् मण्डले अवाधावृद्धिं निवर्द्धयन् २ इदं समवायाङ्गवृत्त्यनुसारेणोक्तं यथा वृद्धेरभावो निवृद्धिः निशब्दस्याभावार्थत्वात् निवरा कन्येत्यादिवत् तां कुर्वन् , निवृद्धयन् २ इदं स्थानाङ्गवृत्त्यनुसारि, सूर्यप्रज्ञप्तिवृत्त्यादौ तु निवेष्टयन २ इत्युक्तमस्ति, अत्र सर्वत्रापि हापयन् २ इत्यर्थः, सर्वाभ्यन्तरमण्डलमुपसङ्क्रम्य चारं चरतीति, गतमबाधाद्वारम् । अथ मण्डलायामादिवृद्धिहानिद्वारम्
॥४३७॥
SEAC
Shin Education inte
For Private Personal use only
www.jainelibrary.org