SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ तेन शेषा द्वापञ्चाशद्भागाः षट्षष्टितमस्य मण्डलस्य बोध्याः अल्पत्वाच्चान न विवक्षिताः, अत्र च पञ्चषष्टिमण्डलानां विषयविभागव्यवस्थायां सङ्ग्रहणीवृत्त्याद्युक्तोऽयं वृद्धसम्प्रदायः-मेरोरेकतो निषधमूर्द्धनि त्रिषष्टिमण्डलानि हरिवर्षजीवाकोव्यां च द्वे द्वितीयपाचे नीलवन्मूर्ध्नि त्रिषष्टिः रम्यकजीवाकोट्यां च द्वे इति, एवमेव सपूर्वावरेण पञ्चषष्ट्येकोनविं' शत्यधिकशतमण्डलमीलनेन जम्बूद्वीपे लवणे च समुद्रे एक चतुरशीतं सूर्यमण्डल शतं भवतीत्याख्यातं मया चान्यैस्तीर्थकृद्भिः । गतं मण्डलसङ्ख्याद्वारम् , अथ मण्डलक्षेत्रद्वारं, तत्र सूत्रं-'सबभंतराओ ण'मित्यादि, सर्वाभ्यन्तरात्-प्रथमात् सूर्यमण्डलात् भदन्त ! कियत्या अबाधया-कियता अन्तरेण सर्वबाह्य-सर्वेभ्यः परं यतोऽनन्तरं नैकमपीत्यर्थः सूर्यम|ण्डलं प्रज्ञप्तम् ?, गौतम! दशोत्तराणि पञ्च योजनशतानि अबाधया-अन्तरालत्वाप्रतिघातरूपया सर्ववाह्यं सूर्यमण्डलं प्रज्ञप्तम् , अत्रानुक्ता अपि अष्टचत्वारिंशदेकषष्टिभागाः 'ससिरविणो लवणंमि अ जोअण सय तिणि तीस अहिआई'इति वचनादधिका ग्राह्याः, अन्यथोक्तसङ्ख्याङ्कानां मण्डलानामनवकाशात् , कथमेतदवसीयते ?, उच्यते-सर्वसङ्ख्यया चतुरशीत्यधिक मण्डलशतं, एकैकस्य च मण्डलस्य विष्कम्भोऽष्टचत्वारिंशदेकषष्टिभागा योजनस्य, ततश्चतुरशीत्यधिक शतमष्टाचत्वारिंशता गुण्यते, जातान्यष्टाशीतिः शतानि द्वात्रिंशदधिकानि, एतेषां योजनानयनार्थमेकषष्ट्या भागो हियते, हृते च लब्धं चतुश्चत्वारिंशदधिकं योजनशतं १४४, शेषमवतिष्ठतेऽष्टचत्वारिंशत् , चतुरशीत्यधिकशतसङ्ख्यानां च मण्डलानामपान्तरालानि व्यशीत्यधिकशतसङ्ख्यानि, सर्वत्रापि ह्यपान्तरालानि रूपोनानि भवन्ति तथा च प्रती Jain Education in For Private & Personel Use Only S ainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy