________________
श्रीजम्बू-18| नक्षत्राणि योगं-स्वयं नियतमण्डलचारित्वेऽप्यनियतानेकमण्डलचारिभिर्निजमण्डलक्षेत्रमागतैग्रहैः सह सम्बन्धं युक्तव-15 ७वक्षस्कारे द्वीपशा- न्ति-प्राप्तवन्ति युञ्जन्ति-प्राप्नुवन्ति योक्ष्यन्ति-प्राप्स्यन्ति, तथा कियन्तो महाग्रहा:-अङ्गारकादयश्चारं-मण्डलक्षेत्रपरि
| चन्द्रादिभ्रमि चरितवन्तः-अनुभूतवन्तः चरन्ति-अनुभवन्ति चरिष्यन्ति-अनुभविष्यन्ति, यद्यपि समयक्षेत्रवर्तिनां सर्वेषामपि ।
संख्या : या वृत्तिः ज्योतिष्काणां गतिश्चार इत्यभिधीयते तथाप्यन्यव्यपदेश विशेषाभावेन वक्रातिचारादिभिर्गतिविशेषैर्गतिमत्त्वेन चैषां ॥
४ सू. १२६ ॥४३३॥ सामान्यगतिशब्देन प्रश्नः, तथा कियत्यस्तारागणकोटाकोठ्यः शोभितवन्तः-शोभां धृतवन्त्यः शोभन्ते शोभिष्यन्ते, एषां च ॥
चन्द्रादिसूत्रोक्तकारणाभावेन बहुलपक्षादौ भास्वरत्वमात्रेण शोभमानत्वादित्थं प्रश्नाभिलापः, अत्र सूत्रेऽनुक्तोऽपि वाशब्दो विकल्पद्योतनार्थ प्रतिप्रश्नं बोध्यः, भगवानाह-गौतम ! द्वौ चन्द्रौ प्रभासितवन्तौ प्रभासेते प्रभासिष्येते च, जम्बूद्वीपे क्षेत्रे सूर्याक्रान्ताभ्यां दिग्भ्यामन्यत्र शेषयोर्दिशोश्चन्द्राभ्यां प्रकाश्यमानत्वात् , प्रश्नसूत्रे च प्रभासितवन्त | इत्यादौ यो बहुवचनेन निर्देशः स प्रश्नरीतिर्बहुवचनेनैव भवतीति ज्ञापनार्थः, एकाद्यन्यतरनिर्णयस्य तु सिद्धान्तोत्तर-19
काले सम्भवः, एवं सूर्यसूत्रेऽपि भावनीयं, तथा द्वौ सूर्यो तापितवन्तौ ३ जम्बूद्वीपक्षेत्रमिति शेषः, अस्मिन्नेव क्षेत्रे ४|| चन्द्राक्रान्ताभ्यां दिग्भ्यामन्यत्र शेषयोर्दिशोः सूर्याभ्यां ताप्यमानत्वात् , तथा षट्पञ्चाशन्नक्षत्राणि एकैकस्य चन्द्रस्य ॥४३॥ प्रत्येकमष्टाविंशतिनक्षत्रपरिवारात् योगं युक्तवन्तीत्यादि प्राग्वत् , तथा षट्सप्ततं-षट्सप्तत्युत्तरं महाग्रहशतं एकैकस्य | चन्द्रस्य प्रत्येकमष्टाशीतेहाणां परिवारभावात् चारं चरितवदित्यादि, तथा पद्येन तारामानमाह-तारागणकोटाकोटी
Jain Education Intel
For Private & Personel Use Only
wamwjainelibrary.org