________________
अथ सप्तमवक्षस्कारः॥७॥
जम्बूद्वीपे च ज्योतिष्काश्चरन्तीति तदधिकारः सम्प्रतिपाद्यते, तत्र प्रस्तावनार्थमिदं चन्द्रादिसङ्ख्याप्रश्नसूत्रम्जंबुद्दीवे णं भंते ! दीवे कइ चंदा पभासिसु पभासंति पभासिस्संति कइ सूरिआ तबइंसु तवेंति तविस्संति केवइया णक्खत्ता जोगं जोइंसु जोअंति जोइस्संति केवइआ महग्गहा चारं चरिंसु चरंति चरिस्संति केवइआओ तारागणकोडाकोडीओ सोभिंसु सोभंति सोभिस्संति ?, गोअमा! दो चंदा पभासिसु ३ दो सूरिआ तवइंसु ३ छप्पण्णं णक्खत्ता जोगं जोइंसु ३ छावत्तरं महग्गहसयं चारं चरिंसु ३ एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साई । णव य सया पण्णासा तारागणकोडिकोडीणं ॥१॥ति (सूत्रं१२६)
'जंबुद्दीवे ण'मित्यादि, जम्बूद्वीपे भगवन्! द्वीपे कति चन्द्राःप्रभासितवन्तः-प्रकाशनीयं वस्तु उद्योतितवन्तःप्रभासयन्ति-उद्योतयन्ति प्रभासयिष्यन्ति-उद्द्योतयिष्यन्ति, उद्योतनामकर्मोदयाच्चन्द्रमण्डलानां, अनुष्णप्रकाशो हि जने | उद्योत इति व्यवह्रियते तेन तथा प्रश्नः, अनादिनिधनेयं जगत्स्थितिरिति जानतः शिष्यस्य कालत्रयनिर्देशेन प्रश्नः,
प्रष्टव्यं तु चन्द्रादिसङ्ख्या, तथा कति सूर्यास्तापितवन्तः-आत्मव्यतिरिक्तवस्तुनि तापं जनितवन्तः, एवं तापयन्ति ताप|यिष्यन्ति, आतपनामकर्मोदयाद्रविमण्डलानामुष्णः प्रकाशस्ताप इति लोके व्यवहियते तेन तथा प्रश्नोक्तिः, तथा कियन्ति
9000809009087882
Jain Education Intel
For Private & Personal Use Only
16
inelibrary.org