________________
शुभफलानां इह किश्चिदशुभफलमपि इन्द्रियमतिविपर्यासात् शुभफलमाभाति ततस्तात्त्विकशुभफलप्रतिपत्त्यर्थमस्यैव | पर्यायमाह-कल्याणानां-तत्त्ववृत्त्या तथाविधविशिष्टफलदायिनां अथवा कल्याणानां-अनर्थोपशमकारिणां कल्याणंकल्याणरूपं फलविपाकं पञ्चणुभवमाणा' प्रत्येकमनुभवन्तो विहरन्ति-आसते । तदेवं पद्मवरवेदिकाया बहिःस्थितवन-18 खण्डवक्तव्यतोक्ता, सम्प्रति तस्या एवार्वाक्स्थितवनखण्डवक्तव्यतामभिधित्सुराह-तीसे णं जगईए' इत्यादि, तस्या जगत्या उपरि पद्मवरवेदिकाया अन्तर्मध्ये यः प्रदेशः एतस्मिन् महानेको वनखण्डः प्रज्ञप्तः, देशोने द्वे योजने विष्कम्भेन वेदिका-पद्मवरवेदिका तस्याः समकातुल्यः परिक्षेपेण, अयं भावः-पद्मवरवेदिकाया यावान् (तावान् ) अस्यापि, | पद्मवरवेदिकाबहिःप्रदेशात् अन्तः पंचधनु शतागमने यत् परिक्षेपन्यूनत्वं तन्न विवक्षितमल्पत्वादिति, 'किण्हे'त्ति
कृष्णो यावदितिपदेन च बहिर्वनखण्डवदविशेषेण वनखण्डवर्णको ग्राह्यः, नवरं तृणविहीनो ज्ञातव्यः, अत्र तृणजन्यः |शब्दोऽपि तृणशब्देनाभिधीयते उपचारादतस्तृणशब्दविहीनो ज्ञातव्यः, उपलक्षणत्वादस्य मणिशब्दविहीनोऽपि, | पद्मवरवेदिकान्तरिततया तथाविधः वाताभावतो मणीनां तृणानां चाचलनेन परस्परं संघर्षाभावात् शब्दाभावः, उपपन्नश्चायमर्थः, जीवाभिगमसूत्रवृत्त्योस्तथैव दर्शनादिति । सम्प्रति जम्बूद्वीपस्य द्वारसंख्याप्ररूपणार्थमाहजंबुद्दीवस्स णं भंते! दीवस्स कइ दारा पण्णत्ता, गो०! चत्तारि दारा पं०, तं०-विजए १ वेजयंते २ जयंते ३ अपराजिए ४, एवं चत्तारिवि दारा सरायहाणिआ भाणियबा (सूत्रं ७) कहि णं भंते! जंबुद्दीवस्स दीवस्स विजए णामं दारे पण्णत्ते?, गो.
eeseeeeeeeeesesesesesesecent
Jain Education
a
l
For Private Personal Use Only
Jainelibrary.org