________________
श्रीजम्बूद्वीपशात्रिचन्द्री - या वृत्तिः
॥ ४५ ॥
Jain Education 1
तानि, 'अच्छणघरगा' इति अवस्थानगृहकारण येषु यदा तदा वाऽऽगत्य बहवः सुखासिकया अवतिष्ठन्ते, प्रेक्षणकगृहकाणि प्रेक्षणकानि विदधति निरीक्ष्यन्ते च, मज्जनगृहकाणि यत्रागत्य स्वेच्छया मज्जनं कुर्वन्ति, प्रसाधनगृहकाणि यत्रागत्य स्वं परं च मण्डयन्ति, गर्भगृहकाणि-गर्भगृहाकाराणि मोहनगृहकाणि मोहनं मैथुनसेवा तत्प्रधानानि गृह| काणि वासभवनानीति भावः, शालागृहकाणि-पट्टशालाप्रधानानि गृहकाणि जालगृहकाणि-जालयुक्तानि गृहकाणि | कुसुमगृहकाणि - कुसुमप्रकरोपचितानि गृहकाणि चित्रगृहकाणि- चित्रप्रधानानि गृहकाणि गन्धर्वगृहकाणि - गीतनृत्याभ्यासयोग्यानि गृहकाणि, आदर्शगृहकाणि - आदर्शमयानीव गृहकाणि, अत्र सूत्रे सर्वत्र ककारः स्वार्थिकोऽवसेयः, | एतानि कथंभूतानीत्याह - 'सवरयणामयाई' इत्यादि प्राग्वत्, “तेसु णं आलिघरेसुं जाष आर्यसघरेसु बहूई हंसासणाई जाव दिसासोवत्थियासणाई सबरयणामयाई जाव पडिरूवाई” इति गतार्थम्, अथ मण्डपकसूत्रं वथा- "तस्स गं वणसंडस्स तत्थ तत्थ देसे तर्हि तहिं वहने जाइमंडवगा जूहियामंडवगा मल्लियामंडवगा णोमालियामंडवना वासंतीमंडवगा दधिवासुयामंडवगा सूरिष्ठिमंडवना तंबोलीमंडवगा जागलयामंडवगा अतिमुत्तयमंडवगा अप्फोआमंडवगा | मालुआमंडवगा सजरवणामया जाय गि कुसुमिया जाव पडिरूवा" अत्र व्याख्या- 'तस्ये' त्यादि पदयोजना सुगमा, जाति: - मालती तन्मया मण्डपकाः जातिमण्डपका, एवं उत्तरत्रापि पदयोजना कार्या, यूथिका प्रतीता मल्लिकाविश्वकिलः, बनमालिका वासन्ती स्पष्टे, एते च पुष्पप्रधाना वनस्पतयः, दधिवातुका नाम वनस्पतिविशेषः, सूरिल्लिरपि
For Private & Personal Use Only
१ वक्षस्कारे
वनखण्डाधि०
॥ ४५ ॥
www.jainelibrary.org