SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सहा' इति रूप्यपट्टमध्यव आयो गन्धः स सुरम्मा पासाईया ४" इति, तेषां तोरणानामुपरि बहवः कृष्णचामरयुक्ताः ध्वजाः कृष्णचामरध्वजाः एवं बहवो नीललोहितहारिद्रशुक्लचामरयुक्ताः ध्वजा वाच्याः, कथम्भूता एते सर्वेऽपीत्याह-'अच्छा सहा' इति स्पष्ट रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते तथा, वज्रो-वज्रमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते तथा, जलजानामिव-पदमानामिवामलो न तु कुद्रव्यगन्धसम्मिश्रो यो गन्धः स विद्यते येषां ते जलजामलगन्धिकाः, 'अतोऽनेकस्वरा'दितीकप्रत्ययः [श्रीसि०७-२-६] अत एव सुरम्याः 'पासादीया' इत्यादि प्राग्वत्, "तेसि णं तोरणाणं उप्पिं बहवे छत्ता-॥ इछत्ता पडागाइपडागा घंटाजुअला चामरजुअला उप्पलहत्थगा पउमहत्थगा जाव सहस्सपत्तहत्थगा सबरयणामया अच्छा जाव पडिरूवा" तेषां तोरणानामुपरि बहूनि छत्रातिच्छत्राणि-छत्राल्लोकप्रसिद्धादेकसंख्याकाद् अतिशायीनि द्विसंख्यानि त्रिसंख्यानि वा छत्राणि छत्रातिच्छत्राणि बह्वयः पताकाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तरेण च पताकाः पताकातिपताकाः बहूनि घण्टायुगलानि बहूनि चामरयुगलानि बहव उत्पलहस्तकाः-उत्पलाख्यजलजकुसुमसमूहविशेषाः, एवं पद्महस्तकाः बहवो नलिनहस्तकाः बहवः सुभगहस्तकाः बहवः सौगन्धिकहस्तकाः बहवः पुण्डरीकहस्तकाः बहवः शतपत्रहस्तकाः बहवः सहस्रपत्रहस्तकाः, उत्पलादीनां व्याख्यानं प्राग्वत्, एते च छत्रातिच्छत्रादयः सर्वेऽपि सर्वरसमयाः, 'जाव पडिरूवा' इति यावत्करणात् 'अच्छा सण्हा लण्हा' इत्यादिविशेषणकदम्बकपरिग्रहः । अथ पर्वतकसूत्रं यथा-"तासि णं खुड्डियाणं वावीणं जाव बिलपंतियाणं तत्थ तत्थ देसे तहिं तहिं बहवे उप्पायपवया नियइ seekeeeeeeeeeeeeees Jain Education For Pres Persone ly Olow.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy