________________
Jain Education Inter
विधीयत इति नानौचितीलेशोऽपीति सर्वं सुस्थं इति शास्त्रप्रस्तावना ॥
तस्य चानुयोगस्य फलादिद्वारप्ररूपणतः प्रवृत्तिर्भवति, यत उक्तम् - "तस्स फलजोगमंगलसमुदायत्था तहेव दाराई । तब्भेयनिरुत्तिक्कमपओयणाई च वच्चाई ॥१॥” ति, तत्र प्रेक्षावतां प्रवृत्तये तस्य - अनुयोगस्य फलमवश्यं वाच्यं, अन्य| थाऽस्य निष्फलत्वमाकलय्य व्याख्यातारः श्रोतारश्च कण्टकशाखामर्द्दन इव नात्र प्रवर्त्तेरन्निति, तच्च द्विधा - कर्त्तुः श्रोतुश्च, एकैकमपि द्विधा - अनन्तरं परम्परं च तत्र कर्तुरनन्तरं द्वीपसमुद्रादिसंस्थानपरिज्ञानेऽतिपरिकर्मितमतिकत्वेन स्पष्टतया यथासंभवं संस्मरणात् स्वात्मनः सुखेनैव संस्थानविचयाभिधानधर्मध्यानसमवाप्तिर्मन्दमेधसामनुग्रहश्च, श्रोतुः पुनर्जम्बूद्वीपवर्त्तिपदार्थपरिज्ञानं, परम्परं तु द्वयोरपि मुक्त्यवाप्तिः, यदाह - "सर्वज्ञोतोपदेशेन यः सत्त्वानामनुग्रहम् । करोति दुःखतष्ठानां, स प्राप्नोत्यचिराच्छिवम् ॥ १॥” तथा - " सम्यग्भावपरिज्ञानाद्विरक्ता भवतो जनाः । क्रियासक्ता ह्यविशेन, गच्छन्ति परमां गतिम् ॥२॥” १, तथा योगः- सम्बन्धो वाच्यः, तेन हि ज्ञातेन फलव्यभिचारमनाशङ्कमानाः प्रेक्षावन्तः प्रवर्त्तन्त इति, स द्विधा - उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च तत्र आद्यस्तर्कानुसारिणः प्रति, अनुयोग उपायोऽर्थावगमादि चोपेयं, स च फलाभिधानादेवाभिहितः, अन्यश्च केवल श्रद्धानुसारिणः प्रति, स चैवम्-अर्थतो भगवता वर्द्धमानस्वामिना जम्बूद्वीपप्रज्ञप्तिरुक्ता सूत्रतो गणधरैर्द्वादशायामुपनिबद्धा, ततोऽपि मन्दमेधसामनुग्रहाय सातिशय| श्रुतधारिभिः षष्ठादङ्गादाकृष्य पृथगध्ययनत्वेन व्यवस्थापिता, अमुमेव च सम्बन्धमनुविचिन्त्य सूत्रकृदुपोद्घातमाधास्यति
For Private & Personal Use Only
jainelibrary.org