________________
Jain Educatio
द्रष्टव्यं तेषामेव चतुष्कोणत्वसम्भवात् न शेषाणां, आनुपूर्व्येण क्रमेण नीचैनीचैस्तरभावरूपेण सुष्ठु - अतिशयेन यो जातो वप्रः - केदारो जलस्थानं तंत्र गम्भीरं- अलब्धस्ताषं शीतलं जलं यासु ताः आनुपूर्व्यसुजातवप्रगम्भीरशीतलजला:, तथा संछन्नानि - जलेनान्तरितानि पत्रबिशमृणालानि यासु ताः तथा, इह विशमृणालसाहचर्यात् पत्राणि | पद्मिनीपत्राणि द्रष्टव्यानि बिशानि - कन्दाः मृणालानि - पद्मनालानि, तथा बहूनामुत्पलकुमुदनलिनसुभगसौगन्धिकपु| ण्डरीकमहापौण्डरीकशतपत्रसहस्रपत्राणां फुल्लानां - विकस्वराणां केशरै:- किञ्जल्कैः उपचिता-भृताः, विशेषणस्याव्यवस्थिततया निपातः प्राकृतत्वात्, तथा षट्पदैः - भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि यासु ताः तथा, अच्छेन - स्वरूपतः स्फटिकवत् शुद्धेन निर्मलेन - आगन्तुकमलरहितेन सलिलेन पूर्णाः तथा 'पsिहत्था ' अतिरेकिताः अतिप्रभूता इत्यर्थः, देशीशब्दोऽयं पडिहत्थमुडुमायं अइरेइयं च जाण आउण्णं' इति वचनात् उदाहरणं चात्र - 'घणपडिहत्थं गयणं सराई नवसलिलमुडुमायाई । अइरेइयं मह उण चिंताए मणं तुहं विरहे ॥ १ ॥ इति, भ्रमन्तो मत्स्यकच्छपा यत्र ताः पडिहत्थ भ्रमन्मत्स्यकच्छपाः, अनेकैः शकुनिमिथुनकैः प्रविचरिता- इत| स्ततो गमनेन सर्वतो व्याप्ताः, ततः पूर्वपदेन विशेषणसमासः, एता वाप्यादयः सरस्सरः पङ्क्तिपर्यवसानाः 'प्रत्येक'| मिति एकं एकं प्रति प्रत्येकं अत्राभिमुख्ये प्रतिशब्दो न वीप्साविवक्षायां पश्चात्प्रत्येकशब्दस्य द्विर्वचनमिति, पद्मवर वेदिकया परिक्षिप्ताः प्रत्येकं २ वनखण्डपरिक्षिप्ताश्च, अपिर्वाढार्थे, बाढमेककाः काश्चन वाप्यादय आसवमिव-चन्द्र
For Private & Personal Use Only
www.jainelibrary.org