________________
धबहरिसिअमणाणं गेज पजं कत्थं पयबद्धं पायबद्धं उक्खित्वायं पवत्ताय मंदायं रोइयावसाणं संत्तसरसमण्णागेयं अट्ठरससंपउत्तं इक्कारसालंकारं छद्दोसविप्पमुक्कं अद्वगुणोववेयं रत्तं तिट्ठाणकरणसुद्धं सकुहरगुंजतवंसतंतीतलताललयग्गहसुसंपउत्तं महुरं समं सुललिअंमणोहरमउयरिभियपयसंचारं सुरई सुणई वरचारुरूवं दिवं णट्टसज्जं गेयं पगीयाणं, भवे एयारूवे सिया ?, गो.! एवंभूए सिआ," अत्र व्याख्या-स यथानामकः किन्नराणां वा किंपुरुषाणां वा महोरगाणां वा गन्धर्वाणां वा, वाशब्दाः सर्वेऽपि विकल्पार्थाः, एते किन्नरादयो रत्नप्रभायाः उपरितनयोजनसहस्रवर्त्तिव्यन्तरनिकायाष्टकमध्यगतपञ्चमषष्ठसप्तमाष्टमनिकायरूपा व्यन्तरविशेषाः, तेषां कथम्भूतानामित्याह-भद्रशालवन| गतानां वा इत्यादि, तत्र मेरोः समन्ततो भूमौ भद्रशालवनं, तत्र प्रथममेखलायां नन्दनवनं, द्वितीयमेखलायां सोम
नसवन, शिरसि चूलिकायाः पार्थेषु सर्वतः पण्डकवनं तत्र गतानां, महाहिमवान्-हेमवतक्षेत्रस्योत्तरतः सीमाकारी | वर्षधरपर्वतस्तस्य, उपलक्षणं चैतत् शेषवर्षधरपर्वतानां मलयपर्वतस्य मन्दरगिरेश्च-मेरुगिरेगुहां समन्वागतानां-गुहाप्राप्तानां, वाशब्दा विकल्पार्थाः, एतेषु स्थानेषु प्रायः किन्नरादयः प्रमुदिता भवन्ति, तत एतेषामुपादानं, एकतः-18 एकस्मिन् स्थाने सहिताना-समुदितानां तथा परस्परं सम्मुखागताना-सम्मुखं स्थितानां नैकोऽपि कस्यापि पृष्ठं दत्त्वा| | स्थित इत्यर्थः, पृष्ठदाने हर्षविघातोत्पत्तेः, तथा सम्यक्-परस्परानाबाधया उपविष्टाः-समुपविष्टास्तेषां, तथा सन्निविप्टानां सम्यक्-स्वशरीरानाबाधया नतु विषमसंस्थानेन निविष्टास्तेषां, तथा 'प्रमुदितप्रक्रीडितानां' प्रमुदिताः-हर्ष गताः
ww.jainelibrary.org
Jain Education
For Private Personal Use Only