________________
8092000000000000000000000000000000
अभिनिस्सरन्ति-श्रोतॄणामभिमुखं निस्सरन्ति, 'भवे एयारूवे सिआ ' इति स्यात्-कथञ्चिद्भवेदेतद्रुपस्तेषां मणीना| तृणानां च शब्दः, भगवानाह-गौतम ! नायमर्थः समर्थः, पुनरपि गौतमः प्राह-से जहाणामए वेआलियाए वीणाए उत्तरमंदामुच्छिआए अंकेसुपइडियाए कुसलणरणारिसुसंपग्गहियाए चंदणसारकोणपरिघट्टियाए पञ्चूसकालसमयंसि मंद मंदं एइयाए वेइयाए चालियाए घट्टियाए फंदियाए खोभियाए उराला मणुण्णा कण्णमणणिब्बुइकरा | सबओ समंता सद्दा अभिणिस्सवंति, भवे एयारूवे सिया ?, णो इणढे समहे" अत्र व्याख्या-स यथानामकः प्रातः | सन्ध्यायां देवतायाः पुरतो या वादनायोपस्थाप्यते सा किल मङ्गलपाठिका, तालाभावे च वाद्यते इति विताले-तालाभावे भवतीति वैतालिकी तस्या वैतालिक्या वीणाया 'उत्तरमंदामुच्छियाए' इति मूर्च्छनं मूर्छा सा सञ्जाता अस्या इति मूच्छिता उत्तरमन्दया-उत्तरमन्दाभिधया गन्धारस्वरान्तर्गतया सप्तम्या मूर्छनया मूर्छिता तस्याः, अयमाशयःगन्धारस्वरस्य सप्त मूर्च्छना भवन्ति, तथाहि-"नंदी य खुड्डिमा पूरिमा य चोत्थी य सुद्धगंधारा । उत्तरगंधारावि अ हवई सा पंचमी मुच्छा ॥१॥ सुहत्तरमायामा छट्ठी सा नियमसो उ बोद्धया । उत्तरमंदा य तहा हवई सा सत्तमी मुच्छा ॥२॥" अथ किंस्वरूपा मूर्छना , उच्यते, गन्धारादिस्वरस्वरूपामोचनेन गायतोऽतिमधुरा अन्यान्यस्वरविशेषा यान् कुर्वन् आस्तां श्रोतन् मूर्छितान् करोति किन्तु स्वयमपि मूर्छित इव तान् करोति, यदिवा स्वयमपि . साक्षान्मूच्छा करोति, यदुक्तम्-“अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया । कत्तावि मुच्छिओ इव कुणए मुच्छं|
secseeeeeeeeeesecience
Jain Education
For
Personen
Khwjainelibrary.org