SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्विचन्द्री - या वृत्तिः ॥३७४॥ Jain Education Intl मृत्तिका उपला-पाषाणाः वज्ञाणि - हीरकाः शर्कराः - कर्करिकाः एतन्मयः कम्दो मन्दरस्य, एतदेव हि प्रथमं काण्डं सहस्रयोजनप्रमाणं, ननु प्रथमकाण्डस्य चतुष्प्रकारत्वात् तदीययोजनसहस्रस्य चतुर्विभजने एकैकप्रकारस्य योजनस| हस्र चतुर्थांशप्रमाणक्षेत्रता स्यात् तथा च सति विशिष्टपरिणामानुगत विच्छेदरूपत्वात् त एव काण्डसङ्ख्यां कथं न वर्द्धयन्तीति ?, उच्यते, क्वचित्पृथ्वीबहुलं क्वचिदुपलबहुलं क्वचिद् वज्रबहुलं क्वचिच्छर्कराबहुलं, इदमुक्तं भवति-उक्त| चतुष्टयमन्तरेणान्यत् किमप्यङ्करलादिकं न तदारम्भकमिति अतो नैयत्येन पृथिव्यादिरूपविभागाभावान्न काण्ड - | सङ्ख्यावर्द्धनावकाश इति, मध्यकाण्डगतवस्तुपृच्छार्थमाह- 'मज्झिमिल्ले' इत्यादि, अङ्करला नि-स्फटिकरलानि जातरूपं - सुवर्ण रजतं - रूप्यम्, अत्रापीयं भावना - कचिदबहुलमित्यादि, अथ तृतीयं काण्डं - 'उवरिले' इत्यादि, प्रश्नो | व्यक्तः, उत्तरसूत्रे एकाकारं - भेदरहितं सर्वात्मना जाम्बूनदं - रक्तसुवर्ण तन्मयमिति । काण्डपरिमाणद्वारा मेरुपरिमा| णमाह- 'मन्दरस्स ण' मित्यादि, भगवन् ! मन्दरस्याधस्तनं काण्डं कियद्वाहल्येन - उच्चत्वेन प्रज्ञप्तम् १, गौतम ! एकं योजनसहस्रं बाहल्येन प्रज्ञतं, मध्यमकाण्डे पृच्छा - प्रश्नपद्धतिर्वाच्या, सा च 'मन्दरस्स णं भन्ते ! पवयस्स मज्झिमिल्ले काण्डे केवइयं बाहल्लेणं पण्णत्ते ?' इत्यादिरूपा स्वयमभ्यूह्या, गौतम ! त्रिषष्टिं योजनसहस्राणि बाहल्येन प्रज्ञप्तम्, अनेन भद्रशालवनं नन्दनवनं सौमनसवनं द्वे अन्तरे चैतत् सर्वं मध्यमकाण्डे अन्तर्भूतमिति, यत्तु समवायाने अष्टत्रिंशत्तमे समवाये 'द्वितीयकाण्डविभागोऽष्टत्रिंशत्सहस्र योजनान्युश्चत्वेन भवतीत्युकं तन्मतान्तरेणेति, एवमुप For Private & Personal Use Only ४ वक्षस्कारे मेरुकाण्डानि सू. १०८ ॥३७४॥ ww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy