SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ रितने काण्डे पृच्छा ज्ञेया, षट्त्रिंशद्योजनसहस्राणि बाहल्येन प्रज्ञसम्, एवमुक्तरीत्या 'सपुवावरण' पूर्वापरमीलनेन मन्दरपर्वतः एक योजनशतसहस्रं सर्वाग्रेण-सर्वसंख्यया प्रज्ञप्तः, ननु चत्वारिंशद्योजनप्रमाणा शिरःस्था चुलिका मेरूप्रमाणमध्ये कथं न कथिता, उच्यते, क्षेत्रचूलात्वेन तस्याः अगणनात्, पुरुषोच्छ्यगणने शिरोगतकेशपाशस्येवेति, इयं च सूत्रत्रयी एकार्थप्रतिबद्धत्वेन समुदितैवालेखि । अथ मेरोः समयप्रसिद्धानि षोडश नामानि प्रश्नयितुमाह____ मन्दरस्स णं भन्ते ! पब्वयस्स कति णामधेजा पण्णता ?, गोअमा! सोलस णामधेजा पण्णत्ता, तंजहा-मन्दर १ मेरु २ मणो रम ३ सुदंसण ४ सयंपभे अ५ गिरिराया ६ । रयणोच्चय ७ सिलोचय ८ मझे लोगस्स ९ णाभी य १० ॥१॥ अच्छे अ ११ सूरिआवत्ते १२, सूरिआवरणे १३ तिआ । उत्तमे १४ अ दिसादीअ १५, वडेंसेति १६ अ सोलसे ॥ २॥ से केणढणं भन्ते! एवं वुचइ मन्दरे पव्वए २!, गोअमा! मन्दरे पब्बए मन्दरे णामं देवे परिवसइ महिद्धीए जाव पलिओनमट्टिइए, से. तेणडेणं गोअमा! एवं वुच्चइ मन्दरे पव्वए २ अदुत्तरं तं चेवत्ति । ( सूत्रं १०९) 'मन्दरस्स ण'मित्यादि,मन्दरस्य पर्वतस्य भगवन् ! कति नामधेयानि-नामानि प्रज्ञतानि?, गौतम! षोडश नामधेयानि प्रज्ञप्तानि, तद्यथा-'मन्दरे'त्यादि गाथाद्वयं, मन्दरदेवयोगात् मन्दरः१, एवं मेरुदेवयोगात् मेरुरिति, नन्वेवं मेरोः स्वामिद्वयमापद्यतेति चेत्, उच्यते, एकस्यापि देवस्य नामद्वयं सम्भवतीति न काप्याशङ्का, निर्णीतिस्तु बहुश्रुतगम्येति २, तथा मनांसि देवानामप्यत्तिसुरूपतया रमयतीति मनोरमः ३, तथा सुष्टु-शोभनं जाम्बूनदमयतया रत्न Jain Education a l For Private Person Only O w .jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy