________________
नीलवर्णत्वात् । साम्प्रतं सूत्रेऽनुक्तोऽपि वाचयितणामपूर्वार्थजिज्ञापयिषया चूलिकाया इष्टस्थाने विष्कम्भपरिज्ञानाय प्रसङ्गगत्योपायो लिख्यते, यथा तत्राधोमुखगमने करणमिदं-चूलिकायास्सर्वोपरितनभागादवपत्य यत्र | योजनादावतिक्रान्ते विष्कम्भजिज्ञासा तस्मिन्नतिक्रान्तयोजनादिके पञ्चभिर्भक्के लब्धराशिश्चतुर्भिर्युतस्तत्र व्यासः स्यात्, तत्र उपरितलाविंशतियोजनान्यवतीर्णस्ततो विंशतिर्धियते तस्याः पञ्चभिर्भागे लब्धाश्चत्वारः ते चतुर्भिः सहिताः ॥ अष्टौ एतावानुपरितलादिशतियोजनातिक्रमे विष्कम्भः, एवमन्यत्रापि भावनीयं, यदा तूर्ध्वमुखगत्या विष्कम्भजिज्ञासा तदाऽयमुपाय:-चूलिकाया मूलादुत्पत्य यत्र योजनादौ विष्कम्भजिज्ञासा तस्मिन्नतिक्रान्तयोजनादि के पंचभिर्भके यल्लब्धं | तावत्प्रमाणे मूलविष्कम्भादपनीते अवशिष्टं तत्र विष्कम्भः, तथाहि-मूलात्किल विंशतिर्योजनान्यूर्व गतस्ततो विंशतिधियते तस्याः पंचभिर्भागे लब्धानि चत्वारि योजनानि तानि मूलविष्कम्भाद् द्वादशयोजनप्रमाणादपनीयते शेषाण्यष्टौ एतावान् मूलादूर्ध्व विंशतियोजनातिक्रमे विष्कम्भः, एवमन्यत्रापि भावनीयं, यथा मेरौ एकादशभिरंशेरेकोऽशः एका
दशभिर्योजनैरेकं योजनं व्यासस्य चीयते अपचीयते तथाऽस्यां पञ्चभिरंशेरेकोऽशः पञ्चभिर्योजनैरेक योजनं व्यास18 स्पेति तात्पर्यार्थः, अत्र बीज-द्वादशयोजनप्रमाणाच्चूलाव्यासादारोहे चत्वारिंशद्योजनेषु गतेषु अष्टौ योजनानि व्यन्ति 18 अवरोहे च तान्येव वर्द्धन्ते ततस्त्रैराशिकस्थापना । ४०८१। मध्यराशावन्त्यराशिना गुणिते एकेन गुणितं तदेव
भवतीति जाता अष्टौ अस्य राशेश्चत्वारिंशता भजने भागाप्राप्तौ द्वयो राश्योरष्टभिरपवर्ते जातं । अथास्य वर्णक
Seeeeeeeeeeeeeeeee
JainEducation
IC
For Private
Personel Use Only
IONaiainelibrary.org