________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृतिः
॥३७० ॥
संपरिक्खित्ता इति उपि बहुसमरमणिज्जे भूमिभागे जाव सिद्धाययणं बहुमसभाए कोर्स आयामेणं अद्धकोसं विक्खम्भेणं देसूणगं कोसं उद्धं उच्चत्तेणं अणेगखंभसय जाव धूवकडुच्छुगा, मन्दरचूलिआए णं पुरत्थिमेणं पंडगवणं पण्णासं जोअणाई ओगाहित्ता एत्थ णं महं एगे भवणे प० एवं जश्चैव सोमणसे पुव्ववण्णिओ गमो भवणाणं पुक्खरिणीणं पासायवडेंसगाण यो her अन्वो जा सकीसाणवडेंसगा तेणं चैव परिमाणेणं ( सूत्रं १०६ )
'कहि ण'मित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे सौमनसवनस्य बहुसमरमणीयाद् भूमिभागादूर्ध्वं षट्त्रिंशद्द्योजनसहस्राणि उत्पत्य तत्र देशे मन्दरे पर्वते शिखरतले - मौलिभागे पण्डकवनं नाम वनं प्रज्ञतं, चत्वारि योजनशतानि चतुर्नवत्यधिकानि चक्रवालविष्कम्भेन, एतदुपपत्तिस्तु सहस्रयोजन प्रमाणाच्छिखरन्यासान्मध्यस्थितचूलिकामूलव्यासे | द्वादशयोजनप्रमाणे शोधितेऽवशिष्टेऽधकृते यथोक्तमानं, यत्पण्डकवनं मन्दरचूलिकां सर्वतः समन्तात् सम्परिक्षिप्य | तिष्ठति, यथा नन्दनवनं मेरुं सर्वतः समन्तात् सम्परिक्षिप्य स्थितं तथेदं मेरुचूलिकामिति, त्रीणि योजनसहस्राणि एकं च द्वापष्टं - द्वाषष्ट्यधिकं योजनशतं किञ्चिद्विशेषाधिकं परिक्षेपेणेति, अथास्य वर्णकमाह'से णं' इत्यादि, व्यक्तं, या च पण्डकवनमभिवाप्य स्थिता सा क्व चूलिकेत्याह- 'पंडगवणे' त्ति पण्डकवनस्य मध्ये द्वयोश्चक्रवालविष्कम्भयोर्विचाले अत्रान्तरे मन्दरस्य - मेरो धूलिका - शिखा इव मन्दरचूलिका नाम चूलिका प्रज्ञता, चत्वारिंशतं योजनान्यूर्ध्वोच्चत्वेन मूले द्वादश योजनानीत्यादिसूत्रं प्राग्वत्, केवलं सर्वात्मना वैडूर्यमयी
Jain Educationonal
For Private & Personal Use Only
४ वक्षस्कारे पण्डकवनं
सू. १०६
॥ ३७० ॥
www.jainelibrary.org