________________
Jain Education In
नस्य वहिः पूर्वापरयोरुत्तरदक्षिणयोर्वा अन्तयोः सम्भवति, अतो नन्दनवन्नाद्वहिर्वर्त्तित्वेन ब्राह्यो गिरिविष्कम्भः, तथा | एकत्रिंशद्योजनसहस्राणि चत्वारि शतानि एकोनाशीत्यधिकानि किञ्चिद्विशेषाधिकानि इत्ययं बाह्यते गिरिपरिरयो मेरु| परिधिरित्यर्थः, णमिति वाक्यालङ्कारे अन्तर्गिरिविष्कम्भो नन्दनवनादर्कान् यो गिरिविस्तारः सोऽष्टयोजन सहस्राणि नव च योजनशतानि चतुष्पञ्चाशदधिकानि षट् च एकादशभागा योजनस्येत्येतावत्प्रमाणः, अयं च ब्राह्यगिरिविष्कम्भे सहस्रोने यथोक्तः स्यात्, तथा अष्टाविंशतियोजन सहस्राणि त्रीणि च योजनशतानि षोडशाधिकानि अष्ट चैकादशभागा योजनस्यैतावत्प्रमाणोऽन्तर्गिरिपरिस्य इति, प्रसिति प्राग्वत् । अथात्र पद्मवरवेदिकाचाह से णं पुप्राए पड़म' इत्यादि, व्यक्तं, अथात्र सिद्धायतचाद्रिवक्तव्यमारभ्यते - 'मन्दरस्त प'मित्यादि, मन्दस्स्य पूर्वस्त्रां सत्र - चन्दने पश्चाशयोजनाद्विक्रमे महदेकं सिद्धायतनं प्रज्ञतम् एवमिति-भवशालवनानुसारेण चतसृषु विक्षु चत्वारि सिद्धावनानि विदिक्षु पुष्करिण्यः, तदेव प्रमाणं सिद्धायतदानां पुष्करिणीनां च यद्रशाले उक्तं प्रासादावतंसकास्तथैव शक्रेशानयोर्वाच्याः यथा भद्रशाले दक्षिणदिकु सम्बद्ध विदिग्वर्त्तिनः प्रासादाः शक्रस्य तथोत्तरदिक्सम्बद्धनिदिखर्त्तिनस्तु ईशाचेन्द्रस्य तेनैव प्रमाणेन - पञ्चयोजनशतोश्ञ्चत्वादिति, अत्र च पुष्करिणीचां नामानि सूत्रकारा लिखितत्वाद्विपिप्रमादाद्वा आदर्शेषु न दृश्यन्ते इति तत्रैशान्यादिमासादुक्रमादिमानि नामानि द्रष्टव्यानि पूज्यप्रणीतक्षेत्र| विचारत:- चन्द्रोत्तस १ नन्दा २ सुनन्दा ३ नन्दिवर्द्धना ४ तथा नन्दिषेणा १ अमोघा २ गोस्तूपा ३ सुदर्शना ४ तथा
For Private & Personal Use Only
wjainelibrary.org