________________
श्रीजम्यूद्वीपशान्तिचन्द्रीया वृत्तिः
॥३६८॥
भद्रा १ विशाला २ कुमुदा ३ पुण्डरीकिणी ४ तथा विजया १ वैजयन्ती २ अपराजिता ३ जयन्ती ४ इति, कूटान्यपि | ४वक्षस्कारे मेरुतस्तावत्येवान्तरे सिद्धायतनप्रासादावतंसकमध्यवर्तीनि ज्ञातव्यानि, तत्र यो विशेषस्तमाह-'णन्दणवणे ण'मित्यादि, मेरौ नन्दरायतं, भद्रशालेऽष्टौ कुटानि इह तु नव ततः सङ्ख्यया नामभिश्च विशेषः, तेष्वाचं स्थानतः पृच्छति-'कहिण'-11
नादिवनामित्यादि, क्व भदन्त! नन्दनवने नन्दनवन कूटं नाम कूटं प्रज्ञप्तम् ?, गौतम! मन्दरस्य पर्वतस्य सम्बन्धिनः पौरस्त्य
१०४ सिद्धायतनस्योत्तरतः उत्तरपौरस्त्ये-ईशानदिग्वर्तिनः प्रासादावतंसकस्य दक्षिणेन एतस्मिन् प्रदेशे नन्दनवनकूट नाम कूट प्रज्ञप्त, अत्रापि मेरुतः पञ्चाशयोजनातिक्रम एव क्षेत्रनियमो बोध्यः, अन्यथाऽस्य प्रासादभवनयोरन्तरालवर्त्तित्त्वं न. यात्, अथ लाघवार्थमुक्तस्य वक्ष्यमाणानां च कूटानां साधारणमतिदिशति-पश्चशतिकानि कूटानि पूर्व विदिग्रहस्तिकूहप्रकरणे वर्णितानि उच्चत्वव्यासपरिधिवर्णसंस्थानराजधानीदिगादिभिः तान्यत्र भणितव्यानीति शेषः, सदृशगमत्वात्, अत्र देवी मेघङ्करा नाम्नी अस्य राजधानी विदिशि अस्य पद्मोत्तरकूटस्थानीयत्वेन राजधानीविदिगुत्तरपूर्वा ग्राह्या, अथ शेषकूटानां तद्देवीनां तद्राजधानीनां च का व्यवस्था इत्याह-'एआहिं'इत्यादि, एताभिर्देवीभिश्चशब्दाद् राजधानीभिरनन्तरसूत्रे वक्ष्यमाणाभिः सह पूर्वाभिलापेन नन्दनवनकूटसत्कसूत्रगमेन नेतव्यानि इमानि वक्ष्यमाणानि ॥३६८॥ कटानि इमाभिर्वक्ष्यमाणाभिर्दिग्भिः, एतदेव दर्शयति-'पुरथिमिलस्स'इत्यादि, इदं च सर्व भद्रशालवनगमसदृशं तेन तदनुसारेण व्याख्येयं, विशेषश्चात्रायं-पञ्चशतिके नन्दनवने मेरुतः पञ्चाशयोजनान्तरे स्थितानि पञ्चशतिकानि
SaG0202000008092c
For Private & Personal Use Only
Jain Education
Hw.ininelibrary.org