________________
विदिशि पुष्करिण्यो भृङ्गाद्याःप्रादक्षिण्येन ज्ञेयाः, प्रासादावतंसकः शक्रस्य सिंहासनं सपरिवारं, उत्तरपश्चिमायावायव्यां विदिशि पुष्करिण्यः श्रीकान्ताद्याः प्रासादावतंसकः ईशानस्य सिंहासनं सपरिवारं, अत्र उत्तरदिक्सम्बद्धत्वेन ऐशानवायव्यप्रासादौ ईशानेन्द्रसत्कौ दक्षिणदिक्सम्बद्धत्वेन आग्नेयनैर्ऋतप्रासादौ शकेन्द्रसत्काविति । सम्प्रति दिग्ग|जकूटवक्तव्यतामाह-'मन्दरेणं भन्ते! पवए'इत्यादि, प्रश्नसूत्रे दिक्षु-ऐशान्यादिविदिक्प्रभृतिषु हस्त्याकाराणि कूटानि दिग्रहस्तिकूटानि, कूटशब्दवाच्यानामप्येषां पर्वतत्वव्यवहारः ऋषभकूटप्रकरण इव ज्ञेयः, स्थानाङ्गेऽष्टमस्थाने तु पूर्वादिषु दिक्षु हस्त्याकाराणि कूटानीति, उत्तरसूत्रे पद्मोत्तरेति श्लोकः, पद्मोत्तरः नीलवान् सुहस्ती अञ्जनागिरिः | 'अञ्जनादीनां गिरा' (श्रीसिद्ध० अ० ३ पा० २ सू०) वित्यादिना दीर्घः, कुमुदः पलाशः अवतंसः रोचनागिरि,
अन्यत्र रोहणागिरिः, अत्रापि दीर्घत्वं प्राग्वत्, अथैषां दिग्व्यवस्थां पृच्छन्नाह कहि 'मित्यादि, क भदन्त ! | मेरी भद्रशालवने पद्मोत्तरो नाम दिग्रहस्तिकूटः प्रज्ञप्तः, गौतम! मन्दरस्यैशान्यां पौरस्त्याया:-मेरुतः पूर्वदिग्वतिन्याः शीताया उत्तरस्यां, अनेनोत्तरदिग्वर्तिन्याः शीताया व्यवच्छेदः कृतः, अत्रान्तरे पद्मोत्तरो नाम दिग्रहस्तिकूटः प्रज्ञप्तः, ऐशानवापीचतुष्कमध्यस्थप्रासादप्राच्यजिनभनवयोरन्तरालवत्तीत्यर्थः, अत एव दिग्रहस्तिकूटा अपि | मेरुतः पञ्चाशयोजनातिक्रम एव भवन्ति, प्रासादजिनभवनसमश्रेणिस्थितत्वात् , पश्चयोजनशतान्यवोचत्वेन पश्चगव्यूतशतान्युद्वेधेन एवमुच्चत्वन्यायेन विष्कम्भः, अत्र विभक्तिलोपःप्राकृतत्वात्, परिक्षेपश्च भणितव्यः, तथाहि
16
Person Use Only
w
Edtion in
.jainelibrary.org
For Private