________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥३६४॥
चत्वारि सिद्धायतनानि भणितव्यानि, यच्च त्रिष्वतिदेष्टव्येषु चत्वार्यतिदिष्टानि तत्र जम्बूद्वीपद्वारवर्णके एवं चत्तारिवि
४वक्षस्कारे दारा भाणिअबा' इत्येतत्सूत्रव्याख्यानमनुस्मरणीयम् । अथैतद्गतपुष्करिण्यो वक्तव्याः--'मन्दरस्स'इत्यादि, सगमं.
मेरुपर्वतः अथासां प्रमाणाद्याह-'ताओ ण'मित्यादि, मेरोरीशान्यां दिशि भद्रशालवनं पञ्चाशयोजनान्यवगाह्यात्रान्तरे चत-॥९॥ म्रो नन्दा-नन्दाभिधानाः शाश्वताः पुष्करिण्यः प्रज्ञप्ताः, आसां च प्रादक्षिण्येन नामानि पद्मा पद्मप्रभा कुमुदा कुमु-19 दप्रभा चैवः समुच्चये ताश्च पुष्करिण्यः पञ्चाशद्योजनान्यायामेन पंचविंशति योजनानि विष्कम्भेन दशयोजनान्यु-18 द्वेधेन-उण्डत्वेन वर्णको वेदिकावनखण्डानां भणितव्यः प्राग्वत्, यावच्चतुर्दिशि तोरणानि । अथैतासां मध्ये यदस्ति || तदाह-'तासि ण'मित्यादि, तासां पुष्करिणीनां बहुमध्यदेशभागे अत्रान्तरे महानेकः ईशानदेवेन्द्रस्य देवराज्ञः प्रासादावतंसकः प्रज्ञप्तः, कोऽर्थः-तं प्रासादं चतस्रः पुष्करिण्यः परिक्षिप्य स्थिता इति, पञ्चयोजनशतान्यूवोच्चत्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भेन समचतुरस्रत्वादायामेनापि, 'अब्भुग्गयमूसिअ'इत्यादि प्रासादानां वर्णनं| प्राग्वत् , एवमुक्ताभिलापानुसारेण सपरिवारः-ईशानेन्द्रयोग्यशयनीयसिंहासनादिपरिवारयुक्तः प्रासादावतंसको भणितव्यः, अथ प्रादक्षिण्येन शेषविदिग्गतपुष्करिण्यादिप्ररूपणायाह-'मन्दरस्स'इत्यादि, मेरोः एवमितिपदमुक्ताति
॥३६४॥ देशार्थ तेन 'भद्दसालवणं पण्णासं जोअणाई ओगाहित्ता' इत्यादि ग्राह्य, नवरं दक्षिणपूर्वस्यामिति-आग्नेय्यां दिशीत्यर्थः, ताश्चोत्पलगुल्मादयः पूर्वक्रमेण तदेव प्रमाणं-ईशानविदिग्गतप्रासादप्रमाणेनेत्यर्थः, दक्षिणपश्चिमायामपि-नैर्ऋत्यां
Jain Education
!
For Pe Personen Oy