________________
Jain Education In
सहस्राणि ४४००० तेषामर्द्ध द्वाविंशतियोंजन सहस्राणि २२००० पूर्वतः पश्चिमतश्च भवन्ति, अथवेदमुपपत्त्यन्तरं - शीतायनमुखं २९२२ योजनानि अन्तरनदीपटू ७५० योजनानि वक्षस्काराष्टकं ४००० योजनानि विजयषोडशकपृथुत्वं ३५४०६ योजनानि शीतोदावनमुखं २९२२ योजनानि एतेषां विस्तारसर्वाप्रमीलने षट्चत्वारिंशद् योजनसहस्राणि एतच्च लक्षप्रमाण| महाविदेहजीवायाः शोध्यते शेषं चतुःपञ्चाशद्योजनसहस्राणि एतावद्भद्रशालवनक्षेत्रं तच्च मेरुसहितमिति धरणीतलसत्कदशयोजन सहस्रशोधने शेषं चतुश्चत्वारिंशद्द्योजन सहस्राणि तस्यार्द्धं एकैकपार्श्वे द्वाविंशतिर्योजन सहस्राणीति, उत्तरतो दक्षिणतश्चार्द्धतृतीयानि योजनशतानि विष्कम्भेन, दक्षिणत उत्तरतश्च तद्भद्रशालवनमर्द्धतृतीययोजनशतानि यावद् देवकुरूत्तरकुरुषु प्रविष्टमित्यर्थः, अत एव देवकुरुमेरूत्तरकुरुष्यासरुद्धे विदेहव्यासे व भद्रशालवनाकाश इति प्रश्नो दूरापास्त इति । अथैतद्वर्णनातिदेशायाह - 'से णं एगाए' इत्यादि, प्राग्वत्, अथात्र सिद्धायतनादिवक्तव्यमाह-| 'मन्दरस्स' इत्यादि, मेरोः पूर्वतः पञ्चाशद्योजनानि भद्रशालवनमवगाह्य - अतिक्रम्यात्रान्तरे महदेकं सिद्धायतनं प्रज्ञप्तं, | पञ्चाशयोजनाम्यायामेन पञ्चविंशतिर्योजनानि विष्कम्भेन षटूत्रिंशद्द्योजनानि ऊर्ध्वोच्चत्वेन अनेकस्तम्मशतसन्निविष्टेत्यादिकः सूत्रतोऽर्थतश्च वर्णकः प्रागुक्तो ग्राह्यः । अथात्र द्वारादिवर्णकसूत्राण्याह - ' तस्स ण' मित्यादि, प्राग्वत्, 'तस्स'ति, 'तीसे ण' मित्यादि, सूत्रद्वयं व्यक्तं । अथोकरीतिमवशिष्टसिद्धायतनेषु दर्शयति- ' मन्दरस्स' इत्यादि, मन्दरस्य पर्वतस्य दक्षिणतो भद्रशालवनं पञ्चाशद्योजनान्यवगाह्येत्याद्यालापको ग्राह्यः एवं चतुर्दिक्ष्वपि मन्दरस्य भद्रशालवने
For Private & Personal Use Only
www.jainelibrary.org