________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ ३४ ॥
Jain Education!
याकुसुमेइ वा सुहिरण्णियाकुसुमेइ वा बीअगकुसुमेइ वा पीयासोएइ वा पीतकणवीरेइ वा पीअबंधुजीवेइ वा भवे एआ रूवे १, गोअमा ! णो इणट्ठे समट्ठे, ते णं हालिया मणी तणा य एत्तो इट्ठतरा चैव जाव वण्णेणं पण्णत्ता' ' तत्रे' त्यादि पदयोजना प्राग्वत्, चम्पकः - सामान्यतः सुवर्णचम्पको वृक्षः, चम्पकच्छली- सुवर्णचंपकत्वक् चम्पकभेदः - सुवर्णचम्पकच्छेदः हरिद्रा व्यक्ता, हरिद्राभेदो-हरिद्राच्छेदः हरिद्रागुलिका- हरिद्रासारनिर्वर्त्तिता गुटिका हरितालिका - पृथिवीविकाररूपा प्रतीता हरितालिका भदो- हरितालिकाच्छेदः हरितालिकागुलिका - हरितालिकासार निर्वर्त्तिता गुटिका चिकुरो - रागद्रव्यविशेषः, चिकुराङ्गरागः- चिकुरसंयोगनिमित्तो वस्त्रादौ रागः, वरं प्रधानं यत् कनकं पीतसुवर्णमित्यर्थः वरकनकं तस्य निघर्षः निकषो वा - कषपट्टके रेखारूपः वरपुरुषो - वासुदेवस्तस्य वसनं -वस्त्रं, तद्धि किल पीतमेव भवतीति तदुपादानं, अल्लकीकुसुमं लोकतोऽवसेयं, चम्पककुसुमं सुर्वणचम्पककुसुमं कूष्माण्डिकाकुसुमं पुंस्फलीपुष्पं, कोरण्टकमाल्यदाम - कोरण्टकः पुष्पजातिविशेषः स च कण्टासे लिआख्यः सम्भाव्यते तस्य मालायै हितानीति कृत्वा माल्यानि पुष्पाणि तेषां दाम - माला, | समुदाये हि वर्णोंत्कव्यं भवतीति दामग्रहणं, तडवडा - आउली तस्याः कुसुमं तडवडाकुसुमं, तथा घोषातकीकुसुमं सुवर्णयूथिकाकुसुमं च प्रतीतं, सुहिरण्यिका - वनस्पतिविशेषः, बीअको वृक्षविशेषः प्रतीतस्तस्य कुसुमं, पीताशोकादयो व्यक्ताः, शेिषं पूर्ववत् । "तत्थ णं जे ते सुकिल्ला मणी य तणा य तेसि णं अयमेयारूवे वण्णावासे पण्णत्ते, तंजड़ा - से जहा णाम ए अंकेइ वा खीरेइ वा खीरपूरेइ वा कोंचावलीइ वा हारावलीइ वा बलायावलीइ वा सारइ अबलाहएइ वा धंतधोअरूप्पप
For Private & Personal Use Only
१ वक्षस्कारे पद्मवेदिकावनखण्डव.
॥ ३४ ॥
wjainelibrary.org