________________
राजधानी वैश्रमणकूटो माम वक्षस्काराद्रिः ३, वत्सावती विजयः प्रभङ्करा राजधानी मत्तजला नदी ४, रम्यो विजयः अङ्कावती राजधानी अञ्जनो वक्षस्कारः५,रम्यको विजयःपक्ष्मावती राजपूः उन्मत्तजला महानदी ६रमणीयो विजयः शुभा राजपू:मातञ्जनो वक्षस्काराद्रिः ७, मङ्गलावती विजयः रत्नसञ्चया नगरी ८, सुलभसूत्रे शब्दसंस्कार एव |विवरणमिति, इमाश्च राजधान्यः शीतादक्षिणदिग्भाविराजधानीत्वेन विजयानामुत्तरार्द्धमध्यमखण्डेषु ज्ञेयाः, अथ विजयादीनां व्यासादिसाम्ये दर्शितेऽपि केनचित्प्रकारेण न पार्श्वयोः परस्परं भेदो भविष्यतीत्याशङ्कानिवृत्त्यर्थमाह'एवं जह'इत्यादि, एवं-पागुक्तप्रकारेण यथैव शीताया महानद्या उत्तरं पार्श्व प्राच्यमिति शेषः तथैव दाक्षिणात्यं | पार्थमिति शेषः भणितव्यं, अत्र विशेषणद्वारेण संग्रहमाह, किंविशिष्टमिदं पार्श्वम् ?-दाक्षिणात्यशीतामुखवनमादौ | यत्र तद् दाक्षिणात्यशीतामुखवनादि, अनेन यथा प्रथमविभागस्य कच्छविजय आदिरुतस्तथा द्वितीयविभागस्य दाक्षि| णात्यशीतामुखवनमादिरुक्तमिति, तथा इमे वक्ष्यमाणा वक्षस्कारकूटाः, कूटशब्देनात्र कूटान्येषां सन्तीत्यभ्रादित्वादप्रत्यये कुटा:-पर्वताः, तद्यथा-त्रिकूटेत्यादि, विजयानां राजधानीनां च संग्रहाय पद्यमेकैकं, इमानि च संग्रह
| सूत्राणि सुखप्रतिपत्तिहेतुभूतानीति न पुनरुक्तिर्विभाव्या, अथ पूर्वसूत्राल्लब्धेऽपि वत्सविजयदिग्नियमे विचित्रत्वात् सूत्र18 प्रवृत्ते रीत्यन्तरमाह-'वच्छस्स'इत्यादि, वत्स्यस्य विजयस्य निषधो दक्षिणेन तथा तस्यैव शीता उत्तरेणेत्यादि स्पष्टं, न
चैवं निषधादयो लक्ष्याः लक्षणं वत्सविजय इति वाच्यं, लक्ष्यलक्षणभावस्य कामचारात्, प्रस्तुते च प्रकरणबलात्
Jain Education
donal
For Private Porn Use Only
Allww.jainelibrary.org