________________
Jain Education Inter
नराशिः ४८४८१८२४, कलाद्वयमपि २९२२ अनेनैव गुण्यते जातः कलाराशिः ५८४४, ततो योजनराशौ ४८४८१८२४ सवर्णिते जातं ९२११५४६५६ ततः कलाराशिः ५८४४ क्षेपे जातं ९२११६०५०० ततोऽस्य मुखवनाया| मेन १६५९२ सवर्णितेन कलाद्वययुक्तेन ३१५२५० भागे हृते लब्ध इष्टस्थाने २९२२ योजनरूपो विष्कम्भः, एव| मन्यत्रापि भावनीयम् । अथास्य पद्मवरवेदिकादिवर्णनायाह - 'से णं एगाए पउ० ' इत्यादि, तन्मुखवनमेकया पद्मवरवेदिकया एकेन च वनखण्डेन सम्परिक्षितम् । अथ शीतामुखवनस्य वर्णको वाच्यः - 'किण्हे किण्होभासे' इत्यादि, कः कियत्पर्यन्तमित्याह - यावद्देवता आसते शेरते इत्यादि, अत्र विजयदिशि पद्मवरवेदिका गोपिका लवणदिशि तु जगत्येव गोपिका इत्येका, इयं च पद्मवरवेदिका जगतीवन्मुखवनव्यास एवान्तलींना, यत्र तु वनव्यासः कलाप्रमा| णस्तत्र विजयव्यासं रुणद्धीति तात्पर्य, अन्यथा विजयादिभिर्जम्बूद्वीपस्य परिपूर्णलक्षपूर्तावुभयतो जगत्यादेः क्वावकाशः स्यात्, अत एवाह - " अविवक्खिऊण जगई सवेइवणमुहचक्कपिहुलतं । गुणतीससयदुवीसं णइति गिरिअंति एगकला ॥ १ ॥” [ विवक्षित्वा जगतीं सवेदिकावनमुखचतुष्कपृथुत्वं । एकोनत्रिंशच्छतानि द्वाविंशत्यधिकानि नदीपार्श्वे गिरिपार्श्वे एका कला ॥ १ ॥] इति, अथोपसंहारमाह - ' एवं उत्तरिल्लं' इत्यादि, एवं - विजयादिकथनेन उत्तरदिग्वर्त्ति पार्श्व समाप्तम्, प्राच्यमिति शेषः, प्राक् चतुर्विभागतयोद्दिष्टस्य विदेहक्षेत्रस्य प्राच्योत्तरपार्श्व विजयादिकथना| पेक्षया पूर्ण निर्दिष्टमित्यर्थः । अथ प्रतिविजयमेकैकां राजधानीं निर्दिशन्नाह - 'विजया' इत्यादि, विजया भणिताः,
For Private & Personal Use Only
jainelibrary.org