________________
नीलवतो दक्षिणस्यां शीताया उत्तरस्यां पौरस्त्यलवणसमुद्रस्य पश्चिमायां पुष्कलावतीचक्रवर्तिविजयस्य पूर्वस्यां अत्रान्तरे शीता मुखवनं नाम वनं प्रज्ञप्तम् ,उत्तरदक्षिणायतेत्यादिविशेषणानि विजयवद्वाच्यानि,इह विजयवक्षस्कारगिर्यन्तरनद्यः सर्वत्र तुल्यविस्ताराः वनमुखानि तु निषधसमीपे नीलवत्समीपे चाल्पविष्कम्भानि शीताशीतोदोभयकूलपार्श्वे तु पृथुविष्कम्भानि जगत्यनुरोधात्,तथाहि-पूर्वस्यामपरस्यां च दिशि निषधानीलवतो वाऽऽरभ्य जगती वक्रगत्या शीतां शीतोदां वा प्राप्ता, जगतीसंस्पर्शवतीनि च मुखवनानि, ततस्तदनुरोधाद् दर्शयति-शीतामहानद्यन्ते द्वे योजनसहस्रे नव च द्वाविं. शत्यधिकानि योजनशतानि विष्कम्भेन, अत्रोपपत्तिः प्राग्वत् , विजयवक्षस्काराद्यन्तरनदीमेरुपृथुत्वपूर्वापरभद्रशालवनायाममीलने जातानि९४१५६,अस्य राशेर्जम्बूद्वीपपरिमाणात् शोधने शेष ५८४४, अस्य शीताशीतोदयोरेकस्मिन् दक्षिणे उत्तरे वा भागे द्वे मुखवने इति द्वाभ्यां भागे हृते आगतानि द्वाविंशत्यधिकान्येकोनत्रिंशद्योजनशतानि २९२२, अत्र च तेवीसे इति पाठोऽशुद्धः, एतच्च पृथुत्वपरिमाणं न सर्वत्र शीताशीतोदयोर्मुखप्रत्यासत्तावेतत्करणावकाशादत्रैव
महाविदेहवर्षस्य सर्वोत्कृष्टविस्तारलाभादित्याह-तदनन्तरं च मात्रया २-अंशेनांशेन परिहीयमानं २-हानिमुपगच्छद् हनीलवर्षधरपर्वतान्ते एकमेकोनविंशतिभागं योजनस्य विष्कम्भेन,एकां कलां यावत्पृथुत्वेनेत्यर्थः, 'कालाध्वनोव्याप्ता'-18 हा (श्रीसिद्ध० अ०२पा. २ सू० ४२) वित्यनेन द्वितीया, अत्र करणं-मुखवनानां सर्वलघुर्विष्कम्भो वर्षधरपार्थे ततो ४ वर्षधरजीवात इदं करणं समुत्तिष्ठति, तथाहि-प्रस्तुते नीलवज्जीवा चतुर्नवतिसहस्राणि शतमेकं षट्पञ्चाशदधिकं योज
Jain Education et
For Private Personel Use Only
V
w
.jainelibrary.org.