SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू. ५९ स्पष्टं, नवरं यावत्पदात् 'तत्थ णं अरिट्ठाए रायहाणीए महाकच्छे णामं राया समुप्पज्जइ, महया हिमवन्त जाव सबं भरहो अवणं भाणिअचं, णिक्खमणवज्जं सेसं भाणिअबं, जाव भुंजइ माणुस्सए सुहे, महाकच्छंणामघेज्जे' इति ग्राह्यं, ईदृशेनाभिलापेनार्थो महाकच्छशब्दस्य भणितव्यः । सम्प्रति ब्रह्मकूटप्रश्नः - - ' कहि णमित्यादि, सर्व व्यक्तं, ब्रह्मकूटनामा द्वितीयो वक्षस्कारः चित्रकूटातिदेशेन यावत्पदादायामसूत्रादिकं भूमिरमणीयसूत्रान्तं च सर्वं वाच्यम् । अथात्र | कूटवक्तव्यतामाह - 'ब्रह्म कूडे चत्तारि कूडा' इत्यादि, व्यक्तं, नवरं एवं चित्रकूटवक्षस्कारकूटन्यायेन वाच्यं यावत्करणात् समा उत्तरदाहिणेणं परुप्परंतीत्यादि ग्राह्यं, अर्थो - ब्रह्मकूटशब्दार्थः, 'से केणद्वेणं भन्ते । एवं वुच्चइ - ब्रह्मकूडे २' इत्यालापकेन उल्लेख्यः, ब्रह्मकूटनामा देवश्चात्र पल्योपमस्थितिकः परिवसति, तदेतेनार्थेनेति सुगमं । अथ चतुर्थविजयः - 'कहि ण' मित्यादि, व्यक्तं, परं द्रहावत्याः अन्तरनद्याः पश्चिमायां कच्छगावतीविजयः कच्छा एव कच्छकाः| मालुकाकच्छादयः सन्त्यस्यामतिशांयिन इति 'अनजिरे' ति सूत्रे (श्रीसि० अ०३पा०२सू०७८) शरादीनामाकृतिगणत्वेन सिद्धिः, शेषं प्राग्वत्, अथायमनन्तरोको विजयो यस्याः पश्चिमायां तामन्तरनदीं लक्षयितुमाह - 'कहि णं मित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे आवर्त्तनाम्नः पूर्वदिग्वर्त्तिनो विजयस्य पश्चिमायां कच्छावत्या विजयस्य पूर्वस्यां यावद् द्रहावतीकुण्ड नाम कुण्डं प्रज्ञतं शेषं यथा ग्राहावतीकुण्डस्य स्वरूपाख्यानं ग्राहावतीद्वीपपरिमाण भवनवर्णकनामार्थकथनप्रमुखं तथा ज्ञेयं, नवरं द्रहावतीद्वीपो द्रहावतीदेवीभवनं द्रहावतीप्रभपद्मादियोगाद् द्रहावतीति नामार्थः समधिगम्यः, द्रहा - For Private & Personal Use Only w.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy