SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥३४८॥ Jain Education In दक्षिणे उत्तरे वा भागेऽन्तरनद्यः पट् सन्तीति पभिर्विभज्यते लब्धः प्रत्येकमन्तरनदीनामुक्तो विष्कम्भ इति, आयामस्तु विजयायाम प्रमाणविजयवक्षस्कारान्तरनदीमुखवनानां समायामकत्वात् ननु 'जावइया सलिलाओ माणुस लोगंमि सबंमि ॥ २९ ॥ पणयालीस सहस्सा आयामो होइ सबसरिआणं' इति वचनात् कथमिदं सङ्गच्छते १, उच्यते, | इदं वचनं भरतगङ्गादिसाधारणं, तेन यथा तत्र नदीक्षेत्रस्यात्पत्वेनानुपपत्तावुपपत्यर्थ कोट्टाककरणमाश्रयणीयं तथात्रापि, अत्र श्रीमलयगिरिपादाः क्षेत्रसमासवृत्तौ जंबूद्वीपाधिकारे एताश्च ग्राहावतीप्रमुखा नद्यः सर्वा अपि सर्वत्र | कुण्डाद्विनिर्गमे शीताशोतोदायाः प्रवेशे च तुल्यप्रमाणविष्कम्भोद्वेधा इत्युक्त्वा यत्पुनर्धातकीखण्डपुष्करार्द्धाधिका| रयोर्नदीनां द्वीपे द्वीपे द्विगुणविस्तारं व्याख्यानयन्तः प्रोचुः यथा जम्बूद्वीपे रोहितांशारोहितासुवर्ण कूलारूप्यकूलानां ग्राहावत्यादीनां च द्वादशानामन्तरनदीनां सर्वाग्रेण षोडशानां नदीनां प्रवाहविष्कम्भा द्वादशयोजनानि सार्द्धानि उद्वेधः क्रोशमेकं समुद्रप्रवेशे ग्राहावत्यादीनां च महानदीप्रवेशे विष्कम्भो योजन १२५ उद्वेधो योजन २ क्रोश २ इति तन्न पूर्वापरविरोधि, यतस्तत्रैव तैः "अत्र लघुवृत्त्यभिप्रायेण प्रवहप्रवेशयोर्विशेषोऽभिहित" इति कथनेन समाहितम्, एवमम्योऽपि लघुवृत्तिगतस्तत्राभिप्रायो दर्शितो वर्त्तते, उभयत्रापि तत्त्वं तु सर्वविदो विदन्ति, किंच - आसां सर्वत्र | समविष्कम्भत्वे आगमवद्युक्तिरप्यनुकूला, तथाहि - आसां विष्कम्भवैषम्य उभयपार्श्ववर्त्तिनोर्विजययोरपि विष्कम्भवैषम्यं स्यादिष्यते च समाविष्कम्भकत्वमिति शेषं व्यक्तमिति, अथ तृतीयं विजयं प्रश्नयन्नाह - 'कहि म'मित्यादि, For Private & Personal Use Only ४ वक्षस्कारे शेष विज यादि सू. ९५ ॥३४८॥ www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy