________________
स्काराणां च तुल्यायामत्वात् , तेन तत्करणं प्राग्वदेव, विष्कम्भे तु पञ्च योजनशतानीति विशेषस्तेन, ननु तानि कथमिति, उच्यते, जम्बूद्वीपपरिमाणविष्कम्भात् षण्णवतिसहस्रेषु शोधितेषु अवशिष्टानि चत्वारि सहस्राणि एकस्मिन् दक्षिणभागे उत्तरे वाऽष्टौ वक्षस्कारगिरयस्ततोऽष्टभिर्विभज्यन्ते, ततः सम्पद्यते वक्षस्काराणां प्रत्येकं पूर्वोक्तो विष्कम्भः, इह हि विदेहेषु विजयान्तरनदीमुखवनमे,दिव्यतिरेकेणान्यत्र सर्वत्र वक्षस्कारगिरयस्ते पूर्वापरविस्तृताः सर्वत्र तुल्यविस्तारास्ततोऽस्य करणस्यावकाशः, तत्र विजयषोडशकपृथुत्वं पंचत्रिंशत्सहस्राणि चत्वारि शतानि षडुत्तराणि ३५४०६, अन्तरनदीषटकपृथुत्वं सप्त शतानि पंचाशदधिकानि ७५० मेरुविष्कम्भपूर्वापरभद्रशालवनायामपरिमाणं चतुःपंचाशत्सहस्राणि ५४००० मुखवनद्वयपृथुत्वमष्टापञ्चाशच्छतानि चतुश्चत्वारिंशदधिकानि ५८४४, सर्वमीलने जातानि षण्णविविसहस्राणि ९६००० इति, तथा नीलवर्षधरपर्वतसमीपे चत्वारि योजनशतान्यूर्बोच्चत्वेन चत्वारि मन्यूतशतानि | उद्वेधेन तदनन्तरं च मात्रया २-क्रमेण २ उत्सेधोद्वेधपरिवृद्ध्या परिवर्द्धमानः२,यत्रयावदुच्चत्वं तत्र तञ्चतुर्थभाग द्वेध इति द्वाभ्यां प्रकाराभ्यामधिकतरोरभवन्नित्यर्थः, शीतामहानद्यन्ते पंचयोजनशतान्यूवोच्चत्वेन पंचमब्यूतशतान्युद्वेधेन,
अत एवाश्वस्कन्धसंस्थानसंस्थितः प्रथमतोऽतुङ्गल्वात् क्रमेणान्ते तुङ्गत्वात्, सर्वरत्नमयः, शेषं प्राग्वत् । अथास्य शिखपारसौभाग्यमावेदयति-चित्तकूडस्स 'मित्यादि, व्यक्तं, अथात्र कूटसङ्ख्यार्थ पृच्छति-'चित्तकूडे इत्यादि, पदयोजना
सुलभा, भावार्थस्त्वयम् -परस्परमेतानि चत्वार्यपि कूटानि उत्तरदक्षिणभावेन समानि-तुल्यानीत्यर्थः, तथाहि-प्रथमं |
seeeeeeeeeeeeeeeesem
Jain Education in
For Private Personal Use Only
A
lainelibrary.org