________________
शेषः सर्वोऽपि वाच्यः, परंततो गङ्गानदी खण्डप्रपातगुहाया अधो वैताव्यं विभिद्य दक्षिणे भागे शीतां समुपसर्पतीति, ननु भरते नदीमुख्यत्वेन गङ्गामुपवर्ण्य सिन्धुरुपवर्णिता इह तु सिन्धुरुपवर्ण्य सा वर्ण्यते इति कथं व्यत्ययः?, उच्यते, इह माल्यवद्वक्षस्कारतो विजयप्ररूपणायाः प्रक्रान्तत्वेन तदासन्नत्वात् सिन्धुकुण्डस्य प्रथमं सिन्धुप्ररूपणा ततो गङ्गाया इति । अथ केनार्थेन भदन्त ! एवमुच्यते कच्छो विजयः कच्छो विजयः?, गौतम! कच्छे विजये वैताव्यस्य दक्षिणस्यां शीताया महानद्या उत्तरस्यां गङ्गायाः महानद्याः पश्चिमायां सिन्धोर्महानद्याः पूर्वस्यां दक्षिणार्द्धकच्छविजयस्य बहुमध्यदेशभागे-मध्यखण्डेऽत्रान्तरे क्षेमानाम्ना राजधानी प्रज्ञप्ता, विनीताराजधानीसदृशी भणितव्या, विनीतावर्णकः सर्वोऽप्यत्र वाच्य इत्यर्थः, तत्र क्षमायां राजधान्यां कच्छो नाम-राजा चक्रवर्ती समुत्पद्यते, कोऽर्थः -यस्तत्र षट्खण्डभोक्ता समुत्पद्यते स तत्र लोकः 'कच्छ' इति व्यवहियते, अत्र वर्तमाननिर्देशेन सर्वदापि यथासम्भवं चक्रवर्युत्पत्तिः सूचिता, न तु भरत इव चक्रवर्ग्युत्पत्तौ कालनियम इति, 'महयाहिमवन्ते'त्यादिकः सर्वो ग्रन्थो वाच्यः यावत्सर्वं भरतस्य क्षेत्रस्य ओअवणमिति-साधनं स्वायत्तीकरणं भरतस्य चक्रिण इति शेषः, निष्क्रमणं-प्रव्रज्याप्राते|पत्तिस्तद्वर्ज भणितव्यं, भरतचक्रिणा सर्वविरतिर्गृहीता कच्छचक्रिणस्तु तद्ग्रहणेऽनियम इति, कियत्पर्यन्तमित्याह| यावद् भुते मानुष्यकानि सुखानि, अथवा कच्छनामधेयश्चात्र कच्छे विजये देवः पल्योपमस्थितिकः परिवसति तेनार्थेन गौतम! एवमुच्यते-कच्छराजस्वामिकत्वात् कच्छदेवाधिष्ठितत्वाच्च कच्छविजयः २ इति, यावन्नित्य इत्यन्त
Jain Education into
For Private Personel Use Only
Hainelibrary.org