________________
Jain Education In
जीवाः अशोककणवीरबन्धुजीववृक्षभेदाः, अशोकादयो हि पश्चवर्णा भवन्ति ततः शेषव्युदासार्थं कृष्णग्रहणं, एतावत्युक्ते भगवन्तं गौतमः पृच्छति - 'भवे एयारूवे' इति भवेत् मणीनां तृणानां च कृष्णो वर्ण एतद्रूपो-जीमूतादिरूपः, काकुपाठाच्चास्य प्रश्नसूत्रता वेदितव्या, भगवानाह - गौतम । नायमर्थः समर्थः - नायमर्थ उपपन्नो, यदुत - एवंभूतः कृष्णो वर्णो मणीनां तृणानां च, किन्तु ते कृष्णा मणयस्तृणानि च इतो- जीमूतादेः सकाशादिष्टतरका एव-कृष्णेन वर्णेन ईप्सिततरका एव, तत्र किञ्चिदकान्तमपि केषाञ्चिदिष्टतरं भवति ततोऽकान्तताव्यवच्छित्यर्थमाह- कान्ततरका एव| अतिस्निग्धमनोहारिकालिमोपचितया जीमूतादेः कमनीयतरका एव, अत एव मनोज्ञतरका - मनसा ज्ञायन्ते अनुकूलतया स्वप्रवृत्तिविषयीक्रियन्ते इति मनोज्ञा-मनोऽनुकूलाः ततः प्रकर्षविवक्षायां तरप्प्रत्ययः, तत्र मनोज्ञमपि किश्चिन्म| ध्यमं भवति ततः सर्वोत्कर्षप्रतिपादनार्थमाह-मन आपतरका एव-द्रष्टृणां मनांसि आप्नुवन्ति - आत्मवशतां नयन्तीति | मनआपाः ततः प्रकर्षविवक्षायां तरप्प्रत्ययः, प्राकृतत्वात् पकारस्य मँकारे मणामतरा इति भवति, अथवा कोऽपि | शब्दः कस्यापि प्रसिद्धो भवतीति नानादेशजविनेयानुग्रहार्थं एकार्थिका एवैते शब्दा इति । 'तत्थ णं जे ते नीलगा मणी तणा य तेसि णं अयमेयारूवे वण्णावासे पण्णत्ते तंजहा से जहा णामए भिंगेइ वा भिंगपत्तेइ वा चासेइ वा चासपिच्छेइ वा सुएइ वा सुअपिच्छेइ वा णीलीइ वा णीलीभेएइ वा नीलीगुलियाइ वा सामाएइ वा उच्चंतएइ वा वण| राईइ वा हलधरवसणेइ वा मोरगीवाइ वा पारेवयगी वाइ वा अयसिकुसुमेइ वा बाणकुसुमेइ वा अंजणकेसियाकुसु
For Private & Personal Use Only
www.jainelibrary.org