________________
प्रज्ञप्तः, सर्वात्मना विजेतव्यश्चक्रवर्तिनामिति विजयः अनादिप्रवाहनिपतितेयं संज्ञा तेनेदमन्वर्थमात्रदर्शनं न तु साक्षात्प्रवृत्तिनिमित्तोपदर्शन मिति, उत्तरदक्षिणाभ्यामायतः पूर्वापरविस्तीर्णः पल्यङ्कसंस्थानसंस्थितः आयतचतुरस्रत्वात्, गङ्गासिन्धुभ्यां महानदीभ्यां वैताब्येन च पर्वतेन षड्भागप्रविभक्तः षट्खण्डीकृत इत्यर्थः, एवमन्येऽपि विजया भाव्याः, परं शीताया उदीच्याः कच्छादयः शीतोदाया याम्याः पक्ष्मादयो गङ्गासिन्धुभ्यां पोढा कृताः, शीताया याम्या वच्छादयः शीतोदाया उदीच्या वप्रादयो रक्कारक्तवतीभ्यामिति, उत्तरदक्षिणायतेति विवृणोति-षोडश योजनसहस्राणि पञ्चयोजनशतानि द्विनवत्यधिकानि द्वौ चैकोनविंशतिभागौ योजनस्यायामेन, अनोपपत्तिर्यथा-विदेहविस्तारात् योजन ३३६८४ कला ८ रूपात् शीतायाः शीतोदाया वा विष्कम्भो योजन ५०० रूपः शोध्यते, शेषस्याङ्के. लभ्यते यथोक्तं मानं, इह यद्यपि शीतायाः शीतोदाया वा समुद्रप्रवेशे एव पञ्चशतयोजनप्रमाणो विष्कम्भोऽन्यत्र तु हीनो हीनतरस्तथापि कच्छादिविजयसमीपे उभयकूलवर्तिनो रमणप्रदेशावधिकृत्य पञ्चयोजनशतप्रमाणो विष्कम्भः प्राप्यत इति, प्राचीनप्रतीचीनेति विवृणोति-द्वे योजनसहने द्वे च योजनशते त्रयो-18 दशोत्तरे किञ्चिदूने, अत्राप्युपपत्तिर्यथा-इह महाविदेहेषु देवकुरूत्तरकुरुमेरुभद्रशालवनवक्षस्कारपर्वतान्तरनदीवनमु-10 | खव्यतिरेकेणान्यत्र सर्वत्र विजयाः, ते च पूर्वापरविस्तृतास्तुल्यविस्ताराः, तत्रैकस्मिन् दक्षिणभागे उत्तरभागे वाऽष्टौ वक्षस्कारगिरयः, एकैकस्य पृथुत्वं पंचयोजनशतानि, सर्ववक्षस्कारपृथुत्वमीलने चत्वारि योजनसहस्राणि, अन्तरनद्यश्च
Jain Education
a
l
For Private Personel Use Only
Mww.jainelibrary.org