________________
CSCLA
1 तासरित्सुरीकूट, पदैकदेशे पदसमुदायोपचार इति सिद्धिः, चः समुच्चये, पूर्णभद्रनाम्नो व्यन्तरेशस्य कूटं पूर्णभद्रकूटम् ,
हरिस्सहनाम्न उत्तरश्रेणिपतिविद्युत्कुमारेन्द्रस्य कूटं हरिस्सहकूट, चैवशब्दः पूर्ववत् , सम्प्रत्यमीषां स्थानप्ररूपणायाह'कहिण'मित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे मन्दरस्य पर्वतस्य उत्तरपूर्वस्यां-ईशानकोणे प्रत्यासन्नमाल्यवत्कूटस्य दक्षिणपश्चिमायां नैर्ऋतकोणे, अत्र सिद्धायतनकूटं प्रज्ञप्तमिति गम्यं, पञ्च योजनशतान्यूवोच्चत्वेन अवशिष्टं मूलविष्कम्भादिकं वक्तव्यं तदेव गन्धमादनसिद्धायतनकूटवदेव वाच्यं, यावद्राजधानी भणितव्या स्यात् , अयमर्थः-सिद्धायतनकूटवर्णके सामान्यतः कूटवर्णकसूत्रं विशेषतः सिद्धायतनादिवर्णकसूत्रं च द्वयमपि वाच्यं, तत्र सिद्धायतनकूटे | राजधानीसूत्रं न सङ्गच्छते इति राजधानीसूत्रं विहाय तदधस्तनसूत्रं वाच्यमिति, अत्र यावच्छब्दो न संग्राहकः किन्त्व
वधिमात्रसूचका, यथा 'आसमुद्रक्षितीशाना'मित्यत्र समुद्रं विहाय क्षितीशत्वं वर्णितमिति, लाघवार्थमत्रातिदेशमाह8 एवं मालवन्तस्स' इत्यादि, एवं सिद्धायतनकूटरीत्या माल्यवत्कूटस्य उत्तरकुरुकूटस्य कच्छकूटस्य वक्तव्यं, शेयमिति |
गम्यं, अथैतानि किं परस्परं स्थानादिना तुल्यानि उतातुल्यानीत्याह-एतानि सिद्धायतनकूटसहितानि चत्वारि परस्परं | दिग्भिरीशानविदिग्रूपाभिः प्रमाणैश्च नेतव्यानि, तुल्यानीति शेषः, अयमर्थः-प्रथम सिद्धायतनकूट मेरोरुत्तरपूर्वस्या | दिशि ततस्तस्य दिशि द्वितीयं माल्यवत्कूटं ततस्तस्यामेव दिशि तृतीयमुत्तरकुरुकूटं ततोऽप्यस्यां दिशि कच्छकूट, एतानि चत्वार्यपि कूटानि विदिग्भावीनि मानतो हिमवत्कूटप्रमाणानीति, कूटसदृग्नामकाश्चात्र देवाः, अत्र 'यावत्स
Jain Education
For Private Personel Use Only
ow.jainelibrary.org